SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ 1402 नैषधमहाकाव्यम् / त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि / दण्डवद् भुवि लुठन् किमु कामस्तं शरण्यमुपगम्य ननाम ? / / 37 // उक्तमेवार्थ भङ्गयन्तरेणाह-त्र्यम्बकस्येति / सः प्रसिद्धः एषः अयम्, कामः मदनः / 'सोऽचि लोपे चेत्पादपूरणम्' इत्यत्र श्लोकपादस्यापि ग्रहणमिष्यते इति सोर्लोपे वृद्धिः / निजशस्त्रनिभानि स्वायुधसदृशानि, कुसुमानि पुष्पाणि, ऽयम्बकस्य त्रिलोचनस्य, पदयोः चरणयोः, न्यस्य समर्म्य, भुवि भूमौ, दण्डवत् दण्डसदृशम, लुठन् पतन् , गात्रं पातयन्नित्यर्थः। शरण्यं रक्षितारम, त्र्यम्बकं त्रिनयनं हरम्, उपगम्य प्राप्य, ननाम किमु ? प्रणतवान् किम् ? // 37 / / नलके शिव-चरणोंमें साष्टाङ्ग प्रणाम करनेपर ऐसा ज्ञात होता था .कि-अपने शस्त्रतुल्य पुष्पोंको शिवजीके दोनों चरणों में रखकर शरणागतवत्सल शिवजीके यहां आकर कामदेव दण्डवत् साष्टाङ्ग प्रणाम कर रहा है / / 37 // व्यापृतस्य शतरुद्रियजनौ पाणिमस्य नवपल्लवलीलम् / भृङ्गभङ्गिरिव रुद्रपराक्ष-श्रेणिराश्रयत रुद्रपरस्य / / 38 // व्यापृतस्येति / रुद्रपरस्य शिवपरायणस्य, अत एव शतरुद्रियस्य शतं रुद्राः देवता अस्य तस्य रुद्रदेवताकमन्त्रविशेषस्य / 'शतरुद्राद् घश्च' इति वक्तव्यात् घप्रत्ययः / जप्तौ जपे। नपुंसके भावे क्तः, 'आदितश्च' इति चकारात् विश्वस्तवत् निष्ठायाम् इडभावे जप्तम्, 'आदितश्चेति चकारस्यानुक्तसमुच्चयार्थत्वात् विश्वस्त. वदित्याहुः' इति भट्टक्षीरस्वामी / तथा च 'जपिवमिभ्यां वा' इति महोपाध्यायः वर्द्धमानसूत्रम् / व्यापृतस्य आसक्तस्य, अस्य नलस्य, नवपल्लवस्येव कोमलकि. सलयस्येव, लीला विलासः यस्य तं तादृशं, पाणिं करम, रुद्रात् रुद्रशब्दात् , परेषाम् उपरितनानाम्, पश्चादुच्चार्यमाणानामित्यर्थः। अक्षाणाम् अक्षेस्यक्षराणाम, रुद्राक्षाणामित्यर्थः / यद्वा-रुद्रपराणां शिवभक्तानाम्, ये अक्षाः जपमालाः, रुद्राक्षमाला इत्यर्थः / तेषां श्रेणिः पङ्गिः, भृङ्गाणां भ्रमराणाम, भङ्गिरिव श्रेणिरिव / मालेव इति यावत् / आश्रयत श्रितवती, प्राप्तवतीत्यर्थः // 38 // शिवपरायण ( अत एव ) शतरुद्रिय मन्त्र के जपमें संलग्न इस (नल) के नवपल्लवतुल्य हाथका आश्रय ( रुद्रपराक्षश्रेणि-'रुद्र' शब्दसे पर ( अन्तस्थ ) है अक्षश्रेणि ( अक्षसमूह = अक्षमाला ), जिसकी ऐसी अर्थात् रुद्राक्षमाला, पक्षा०-रुद्रपर (शिवजीमें परायण अर्थात् शिवभक्त-नल', से धार्यमाण अक्षश्रेणि ) रुद्राक्षमालाने किया / [नल हाथमें रुद्राक्षकी माला लेकर शतरुद्रिय मन्त्रका जप करने लगे] // 38 // उत्तमं स महति स्म महीभृत पूरुषं पुरुषसूक्तविधानैः। द्वादशापि च स केशवमूर्तीादशाक्षरमुदीर्य ववन्दे // 39 // 1. 'प्रकाश'कारः श्लोकमिमं क्षेपकमाह / 2. 'महीयान्' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy