________________ 1398 नैषधमहाकाव्यम् / तत्तदर्यमरहस्यजपेषु स्रङ्मयः शयममुष्य बभाज | रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः / / 31 / / तदिति / तेषां तेषां श्रौतस्मार्त्तानाम् , अर्यम्णः सूर्यस्य, रहस्यानां मन्त्राणाम् , जपेषु असकृत् गूढोच्चारणकाले, स्रङ्मयः जपमालास्वरूपः, रक्तचन्दनजानां कुचन्दः नोद्भवानाम , बीजानां गुटिकानाम् / 'तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् / कुच. न्दनम्' इत्यमरः / समाजः समूहः उच्चैःअधिकम् ,रक्तिमानं रक्तत्वम् , शिक्षितुमिव अभ्यसितुमिव, अमुष्य नलस्य, शयं हस्तम् , बभाज सिषेवे / नलपाणितलस्य प्रकृत्या एव रक्तिमातिशयात् शिक्षार्थं यथा शिष्याः उपाध्यायं सेवन्ते, तथा रक्ति माधिक्यशिक्षार्थ तत्पाणितलम् आश्रयामास इति भावः // 31 // उन-उन सूर्य-मन्त्रों के जपोंमें मालारूप रक्तचन्दन -बीज-समूहने मानो अधिकतर लालिमाको सीखने के लिए इस ( नल ) के हाथ को प्राप्त किया। [नल जब रक्तचन्दनके बीजोंकी मनियोंवाली मालासे सूर्यके श्रौत तथा स्मार्त मन्त्रोंको जपने लगे तो ऐसा मालूम होता था कि-मानो यह रक्तचन्दन-बीज समूह स्वभावतः अत्यधिक लाल नलके हाथसे अधिक लालिमाको सीखने के लिए इनके हाथके पास आ गया है। शिक्षा लेने के लिए शिष्यका गुरुके पास जाकर उसकी सेवा करना उचित ही है। सद्यःफलप्रद होनेसे नलने रक्तचन्दनके बीजोंकी मणिवाली मालासे सूर्य मन्त्रोंका जप किया ] // 31 // (हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः। __आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव / / 3 / / ) हेमेति / हेमनामकस्य धत्तरस्य तरोः प्रसवेन विकसितकुसुमेन कृत्वा तेन नलेनोपकल्पिता पूजा यस्य स त्र्यम्बको राजितः शुशुभे / उत्प्रेक्षते-रतीशं युधि विजित्य बलादात्तया गृहीतया कुसुमरूपकाहलया धत्तरपुष्पाकारवाद्यविशेषेणेव / कुसुमकाहलयोपलक्षित इवेति वा / शराणां कौसुमत्वाद्वादित्राणामपि कौसुमतया युक्तरवारकामकाहलायाः कौसुमत्वमुचितमेव / पराभूतात्कामावलाद् गृहीतया कौसु. मकाहलयेव धत्तरपुष्पेण रञ्जित इत्यर्थः / अन्योऽपि शत्रुजित्वा बलाद् गृहीतेन तच्छववादित्रादिना शोभते / सौन्दर्येण स्वस्पर्धितया स्वस्य शिवभक्तत्वात् कामस्य च शिवविरोधित्वात् स्वविरोधिनं स्वस्वामिविरोधिनं च स्मरं रणे जित्वा तस्माद्वला. नलेनैव गृहीतया कुसुमकाहलयेवेत्थं धत्तरपुष्पेण कृत्वा नलेन कृतोपदः, अथ चकृतपूजः शुशुभे / सेवको हि स्वविरोधिनं स्वस्वामिविरोधिनं वा रणे जित्वा तच्छ. स्ववादित्रादि बलाद् गृहीत्वा स्वामिन उपदीकरोति / तेन च स्वामी शोभत इति वा। प्रियतरेण धत्तुरपुष्पेण स नलः शिवमपूपुजदिति भावः / 'धत्तुरः कनकाह्वयः' इत्यमरः / 'वाद्यभाण्डविशेषे तु काहला' इति विश्वः // 3 // 1. अयं श्लोकः 'प्रकाश'व्याख्यया सहैवात्र स्थापितः /