________________ 1360 नैषधमहाकाव्यम् / राज्ञीति / अस्मिन् राज्ञि भानुमतः सूर्यस्योपस्थितये उपस्थानार्थमात्तं गृहीत. मध्यंदानसम्बन्धि अध्यदानानन्तरं वा / 'असावादित्यः-' इत्यादिमन्त्रपूर्व जलं शिरम्परितःस्वपाणिना स्फुरति प्रकाशमाने तेजसि सौरप्रभाप्रसरेमध्ये गलद्विन्दुक्रमेण किरति सति भ्रान्तयः क्षिप्तोदकस्यैव प्रादक्षिण्यपरिभ्रमणानि लोकस्य त्वष्टुर्विश्वकमणः तकु शाणचक्रं तत्र घर्षणवशाच्चलतो भ्राम्यतो विष्वपतनशीलतेजाकणस्याकस्य वितक तद्विषयं विशिष्टमूह चक्रः। प्रकाशमानसौरप्रभाप्रदक्षिणप्रक्षिप्तगलद्विन्दु. जलभ्रमणदर्शनेन विश्वकर्मणा सूर्यः पुनरपि शाणचक्रे धृतः किम् ?, अत एवैतेऽणवः कणाः पतन्तीति लोकस्य तदानीं बुद्धिरभूदित्यर्थः / भानुमदुपस्थितये गृहीतमम्बु स्वकरेण विक्षिपत्यस्मिन् राज्ञि विषये लोकस्य भ्रान्तयो नलाङ्गप्रभासरे प्रकाशमाने सति निशाणचक्रपरिभ्रमत्सूर्यसम्भावनां लोकस्य चक्ररिति वा / राज्ञा यदम्बु गृहीतं तस्मिन्नुत्क्षिप्ते जले स्फुरति प्रतिफलति रवितेजसि जायमाना भ्रान्तयो भ्रमणानि स्वष्टतकुचलदकवितक चक्रः / उरिक्षप्ताअपो वियतिभ्रमन्त्यः पतन्ति, तत्प्रतिबिम्बिते तेजस्यपि भ्रमणानि जायन्ते / तत्रोत्प्रेक्षेति वा / अर्घ्यदानं सूर्योपस्थानञ्च कृतवानिति भावः / 'स्फुरिततेजसो' ति पाठे नलविशेषणम् // 1 // ____ इस राजा ( नल ) के सूर्योपस्थान करने के लिए स्फुरित होते हुए सूर्य-प्रभा-समूहके मध्य में ( 'असावादित्यः..' मन्त्रोच्चारणपूर्वक ) अपने हाथसे लिये हुए जलको फेंकन पर देखनेवालोंको घूमते हुए उस जल के पतनने विश्वकर्माके शाणपर पुनः चढ़ाये गये सूर्यके तर्कको उत्पन्न कर दिया अर्थात् सूर्योपस्थानके समय अपने शिरके चारो ओर घुमाकर फेंके गये जलमें सूर्यको प्रभा पड़ी तो प्रदक्षिणकमसे गिरते हुए उस जलसे ऐसा ज्ञात होता था कि विश्वकर्माने अपने शाणपर सूर्यको पुनः चढ़ाया है / / 1 / / सम्यगस्य जपतः श्रुतिमन्त्राः सन्निधानमभजन्त कराब्जे / शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः / / 18 / / सम्यगिति / शुद्धानि आगमोक्तक्रमोच्चारणानिर्दोषाणि, बीजानि वहिवारुणादि. मूलमन्त्राणि येषु ते च ते विशदाः निर्मलाः, स्फुटाः स्पष्टाश्च, वर्णाः अक्षराणि येषां ते चेति तथोक्ताः / शुद्धबीजाश्च ते विशदस्फुटवर्णाश्चेति विशेषणसमासः / श्रतिमन्त्राः वेदोक्तमन्त्राः गायध्यादयः, शुद्धानि अदुष्टानि, बीजानि गुडकानीत्यर्थः / यस्य तच्च तत् , विशदः शुभ्रः, स्फुटः उज्ज्वलश्च, वर्णः प्रभाविशेषः यस्य तच्चेति तत् , स्फाटिकं स्फटिकमयम् , यत् अक्षवलयं जपमाला, तस्य छलं व्याजम् , भजन्ति आश्रयन्ति ये ते तादृशाः सन्तः, सम्यक् सुष्टु यथा तथा, जपतः जपं कुर्वतः, अस्य नलस्य, करः पाणिरेव, अब्ज कमलं तस्मिन् , सन्निधानं सान्निध्यम् , अभजन्त प्राप्ताः, इवेति शेषः // 18 // (आगमोक्त क्रमसहित उच्चारण करनेसे ) निर्दोष ( वह्नि, वरुण आदिके ) बीजोंसे स्फुट