________________ 1378 नैषधमहाकाव्यम् / प्रत्यावर्त्तनं कतमित्यर्थः / न शेके इत्यनेनान्वयः / शालीनतयैवेति भावः / लज्जा. विषादाभ्याम् उभयत आकृष्यमाणत्वादिति तात्पर्यम् // 156 // प्रिय ( नल ) का अप्रिय ( सम्भोगेच्छातिक्रमणकर गमनरूपकार्य) करके अन्तःकरणमें पश्चात्तापयुक्त यह ( दमयन्ती ) सखियों के प्रति नहीं जा सकी और धाष्टर्थाभावयुक्त अर्थात् अतिशय लज्जाशीला होनेसे लौट भी नहीं सकी [प्रियका अप्रियाचरणकर विना उन्हें प्रसन्न किये चला जाना अनुचित समझकर दमयन्ती द्वारदेशको लाँधकर आगे सखियोंके पास नहीं जा सकी तथा 'हमलोगों के पीछे आकर भी यह दमयन्ती सम्भोग करने के लिए पुनः नलके पास चली गयी ऐसा सखियां मनमें कहेंगी इस लज्जासे, अथवा-'यह पहले तो शानमें चली गयी और अब फिर स्वयं चलो आयो' ऐसी नलके प्रति हो उत्पन्न लज्जासे वह दमयन्ती द्वारदेशको लाँधकर कुछ देर तक रुक गयी ] // 156 // अकथयदथ वन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः / जय नृप! दिनयौवनोष्मतप्ता प्लबनजलानि पिपासति क्षितिस्ते।।१५७।। अकथयदिति / अथ दमयन्तीनिर्गमनानन्तरम्, वन्दिसुन्दरी काचित् वैतालिकस्त्री, शुद्धान्तःपुरे पुरुषप्रवेशनिषेधादिति भावः। द्वाःसविधं द्वारसमीपम्, उपेत्य समा. गत्य, नृप ! हे राजन् ! जय सर्वोत्कर्षेग वर्तस्व, अह्नः मध्यं मध्याह्नकालः समागत इत्यर्थः / अत एव दिनस्य दिवसस्य, यौवन तारुण्यम्, पूर्णावस्था इत्यर्थः / मध्याह्नः इति यावत् / तस्य उष्मणा सन्तापेन, तप्ता उष्णीभूता, क्षितिः धरणी, ते तव, प्लवनजलानि स्नानोदकानि, पिपासति पातुमिच्छति, तापस्य पिपासाहेतुत्वादिति भावः / इति नलाय नैषधाय, अकथयत् अवदत् , माध्याह्निकस्नानकालोऽयमवधार्य तामिति तात्पर्यार्थः / / 157 // __इस ( दमयन्तीके बाहर चले जाने ) के बाद बन्दीकी स्त्रीने द्वारके समीप आकर मध्याह्नकाल होने की सूचना दी-'हे राजन् ! विजयी होवें, दिनके तारुण्यकी उष्णतासे सन्तप्त पृथ्वी आपके स्नानजलको पीना चाहती है अर्थात् आपके स्नानका समय हो गया है // 157 // उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् / अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् // 158 / / उपेति / किञ्च, कम्बुच्छवि शङ्कच्छायम् , शङ्कायत शुभ्रप्रभमित्यर्थः / अधिगङ्गं गङ्गायाः / विभक्त्यर्थेऽव्ययीभावः / उपहृतम् आनीतम् , कलशेन गङ्गातः समानी. तमित्यर्थः / अम्बु गाङ्गं जलम् इत्यर्थः / तव ते, केशभङ्गयाः कुटिलकृष्णकुन्तलजा. लस्य, सङ्गात् स्पर्शात , अनन्तरं सङ्गात् परमित्यर्थः। तरङ्गैः अर्मिभिः, असमायाः विषमायाः, निम्नोन्नतायाः इत्यर्थः / शमनस्वसुः अतिकृष्णायाः यमुनायाः, मिश्र. भावस्य मेलनस्य, शोभा सौन्दर्यम्, अनुभवितुं प्राप्तुम, वान्छति इच्छति / शुभ्रग. 1. 'अचथयदथ' इति पाठान्तरम् /