________________ विंशः सर्गः। 1377 अपीति / सः नलः, गजस्तम्भौ आलाने इव, हस्तिबन्धनस्थूणे इवेत्यर्थः / उरू महान्ती, दोषौ भुजौ यस्य सः ताहशोऽपि महाभुजोऽपि / 'भुजबाहू प्रवेष्टो दोः' इत्यमरः / तस्याः दमयन्त्याः , अङ्गसङ्गात् देहस्पर्शात् , जायते उत्पद्यते इति तादृशः, स्तम्भः निष्क्रियाङ्गतालक्षणसात्त्विकविकारः यस्य सः तादृशः सन् , श्रोणिभरेण नितम्बभारेण, स्वैरां मन्द मन्दगमनामपि इत्यर्थः / 'मन्दस्वच्छन्दयोः स्वैरम्' इत्यमरः / ता प्रियाम् , धत्त ग्रहीतुम् , निरोधुमिति यावत् / न अशकत् न सम. र्थोऽभूत् / स्वयं निर्व्यापारस्य किं सहकारिसम्पदा ? इति भावः // 154 // (हाथी बाँधनेके खम्भेके समान लम्बे तथा विशाल बांहुवाले होते हुए भी उस ( दमयन्ती) के शरीर-स्पर्शजन्य स्तम्भ ( 'जडता' रूप सात्त्विक भाव ) युक्त उस (नल ) ने नितम्बों के भारसे मन्दगामिनी ( पाठा०-पराधीन-इच्छानुसार तीव्रगतिसे नहीं चल सकनेवाली ) उस ( दमयन्ती ) को नहीं पकड़ सके / [ क्योंकि कर्तव्यशून्य व्यक्तिके सहायक कुछ भी नहीं कर सकते हैं ] / / 154 // आलिङ्गालिङ्ग तन्वङ्गि ! मामित्यर्द्धगिरं प्रियम् / स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ // 155 / / पालिङ्गेति / असौ भैमी, तन्वनि ! हे कृशाङ्गि! मां नलम् , आलिङ्ग आलिङ्ग आश्लिष आश्लिष, इति एवम्, अर्द्धा अन्यकत्त कश्रवणभयात् अर्द्धस्फुटा, गीः वाक यस्य तं तादृशम्, प्रियं पतिम्, स्मिस्वा मन्दं हसित्वा, निवृत्य, परावृत्य, पश्यन्ती अवलोकयन्ती सती, द्वारस्य कपाटस्य, पारं चरमभागम् , अगात् गतवती / द्वारम् अतिचक्राम इत्यर्थः॥ 155 // _ 'हे तन्वनि ! मेरा आलिङ्गन करो, आलिङ्गन करो' ऐसा आधा ( दूसरेके सुननेके भयसे अस्फुट या-वाक्य शेष उच्चारण करने में नलके असमर्थ होनेसे अोक्त) वचन (कहने) वाले प्रिय (नल) को स्मितकर तथा लौटकर देखती हुई यह (दमयन्ती) दरवाजेसे बाहर चली गयी। प्रियस्याप्रियमारभ्य तदन्तर्दूनयाऽनया / शेके शालीनयाऽऽलिभ्यो न गन्तुं न निवर्तितम् / / 156 // .. प्रियस्येति / प्रियस्य पत्युः नलस्य, अप्रियम् अतिक्रमरूपम् अप्रीतिजनकः व्यापारम, तं विहाय गमनरूपव्यापारमित्यर्थः / आरभ्य आचरित्वा, तेन अप्रिया. चरणेन, तदित्यत्र 'तम्' इति पाठे-तं पूर्वोक्तरूपमप्रियमित्यर्थः। अन्तः अन्तःकरणे, दूनया परितप्तया / 'ओदितश्च' इति निष्ठा 'नत्वम् / शालीनया अपृष्टया, स्वभावत एव सलज्जया इत्यर्थः / अनया भैम्या, आलिभ्यः सखीभ्यः, गन्तुम् अपि यातुमपि / 'गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि' इति चतुर्थी / न शेके न शक्तम् / भावे लिट् / अन्तर्दूनस्वादिति भावः / तथा निवर्तितुं प्रियं प्रत्यागन्तुञ्च, प्रियसनिधी 1. 'तमन्त-' इति पाठान्तरम् /