________________ विंशः सर्गः। 1366 अपयातमितो धृष्टे ! धिग् वामश्लीलशीलताम् / इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया // 138 / / अपयातमिति / पृष्टे ! हे प्रगल्भे! इतः अस्मात् देशात् , अपयातं बहिर्गच्छतम्, युवामिति शेषः / वां युवयोः, अश्लीलशोलतां.ग्राम्यभाषणस्वभावम्, धिक् निन्दामः, इति एवम् , उक्त कथिते, भरिसते इति यावत् / कनकिभिरिति शेषः। ते कलात. त्सख्यौ उभे, भिया भयेन, कञ्चकिनां प्रहारादिति भावः। तथा इति इत्थम् , उक्तवन्तः कथितवन्तः, भर्सितवन्तः इति यावत् / ते कञ्चकिनः, भिया राजदम्पत्योः क्रोधभयेन, व्यतिद्राते स्म परस्परब्यतिहारेण पलायेते स्म पलायन्ते स्म च, गृहस्य निभृतताविधानार्थमिति भावः / द्रा कुस्सायां गताविति धातोर्लटि 'कर्तरि कर्मः व्यतिहारे' इत्यात्मनेपदम् , 'अदादित्वात् शपो लुक् / अत्र प्रथमपुरुषस्य द्विवचनबहुबचनयोः समान रूपम् , एवं ते इत्यत्रापि स्त्रियां द्वित्वे पुंसि बहुत्वे च समानरूपम् // 138 // ___ 'हे धृष्ट दोनों सखियां ! यहां से दूर हटो, तुम दोनोंके ग्राम्यत्वमाषणके स्वभावको धिक्कार है, ऐसा कहनेपर (या-ऐसी कही गयीं ) वे दोनों सखियां भयसे भाग गयीं और ऐसा कहे हुए वे ( कञ्चकी मी) उन्हें डराने के व्याजसे स्वयं चले गये // 138 // आह स्म तदगिरा हीणां प्रियां नतमुखीं नलः / ईहरभण्डसखीकाऽपि निस्त्रपा न मनागपि / / 139 / / आहेति / अथ नलः नैषधः, तयोः कलातत्सख्योः, गिरा 'वच्यावः तत्परम्' इत्यादिकया वाचा, हीणां लजिताम् , अत एव नतमुखीम् अवनतवदनाम , प्रियां दमयन्तीम् , आह स्म उवाच / किमित्याकाङ्क्षायां सार्द्धश्लोकेनाह-ईदृशौ एव. म्भूते भण्डे निर्लज्जे, सख्यो वयस्ये यस्याः सा तादृशी अपि ईगभण्डसखीकाऽपि / 'नद्यतश्च' इति कप समासान्तः / त्वमिति शेषः / मनाक अपि ईषदपि, निस्त्रपा निर्लज्जा न, भवसीति शेषः। यस्याः खलु सख्यः एवं निर्लजाः, तस्यास्तवापि नैर्लज्ज्यमेव युज्यते, भवती तु न तादृशीति महांस्ते चरित्रोत्कर्षः इति भावः // 139 // उन ('कला' तथा उसकी सखी ) के वचन ( 201136 ) से लज्जित एवं नम्रमुखी प्रिया ( दमयन्ती ) से नलने कहा-ऐसी भण्ड ( अश्लीलभाषिणी) सखियोंवाली भी ( तुम ) थोड़ा भो निर्लज्ज नहीं हो (यह आश्चर्य है / अथवा-अत एव तुम आदर्श चरितवाली हो। 1. इतोऽनन्तरमत्र म० म०शिवदत्तशर्माण:--'न गतिहिंसार्थभ्यश्च' इत्यात्मनेपदनिषेधाञ्चिन्त्यमेव / 'बहिर्भावमात्रविवक्षायां गत्यर्थत्वाभावादात्मनेपदमिति यथा कथचिस्समर्थनीयम् / प्रकारान्तरं वा गवेषणीयम् इति सुखावबोधा' इत्याहः / 'प्रकाश'-कृतश्च 'द्रातः परस्मैपदित्वादात्मनेपदं चिन्त्यमित्याहुः। 2. 'मनागसि' इति पाठान्तरम् /