________________ 1366 नैषधमहाकाव्यम् / दशाम , निरीचय अवलोक्य, हीणे लज्जिते सत्यौ, ततः तस्माद् गृहात , निर्ययतुः निर्जग्मतुः। ततः तयोः कलातत्सख्योःवीक्षारसाद्दर्शनेच्छातः, सर्वा अपराः समस्ताः सख्यः वयस्याः, क्रमात् एकमेकं कृत्वा, निश्चक्रमुः निष्क्रान्ताः // 13 // वे दोनों ( 'कला' तथा उसकी सखी ) ( कपड़ेके भींगनेसे समस्त शरीरावयवका स्पष्ट दर्शनरूप ) अपनी अवस्थाको देख लज्जित होकर वहांसे चली गयीं तथा उन्हें देखने के कौतुकसे दूसरी सव सखियां भी क्रमशः चली गयीं // 131 / / ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ! / ____ उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाऽप्यम् // 132 / / ता इति / ताः सख्यः, बहिर्भूय बहिर्निर्गम्य, वैदर्भी दमयन्तीम्, ऊचुः कथया. मासुः। किमिति ? नीतावधीतिनि ! हे अधीतनीतिशास्त्रे भैमि ! इष्टादित्वादिनिप्रत्ययः 'क्तस्येविषयस्य-' इति कर्मणि सप्तमी। अमू एते, मर्मज्ञे भवत्योः रहस्याभिज्ञे, सख्यौ कलातत्सपने, अधुना पूर्व यथा भवतु, इदानीमपि, ते तव त्वयेत्यर्थः / 'कृत्यानां कर्तरि वा' इति कर्तरि षष्ठी / न पुनः नेव, उपेक्ष्ये अवहेलनीये, 'मर्मज्ञं न प्रकोपयेत्' इति न्यायात् सत्वरमेव गत्वा ते प्रसादनीये, अन्यथा, सर्वमेव रहस्यं ते प्रकाशयिष्यत इति भावः // 132 // ___बाहर निकलकर उन ( कला और उसकी सखी को छोड़कर अन्य ) सखियोंने कहा कि-'हे नीतिशास्त्रको पढ़ी हुई दमयन्ति ! ( तुम्हारे ) मर्म ( रहस्य-सम्भोगादि वृत्तान्त ) को जाननेवाली उन दोनों ( 'कला' तथा उसकी सखी ) को इस समय भी तुम्हारे द्वारा उपेक्षा नहीं होनी चाहिये अर्थात् तुम उन दोनोंकी उपेक्षा मत करो; [ क्योंकि उपेक्षित वे दोनों तुम्हारे रहस्यको सबके समक्ष प्रकट कर देगी ] // 132 / / उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः / श्रतं ममें ममताभ्यां दृष्टं मम मयतयोः / / 133 / / उच्चैरिति / अथ सखीनामुक्तवचनश्रवणानन्तरम्, राजा नलः, ताः सखीः, उच्चैः तारस्वरेण, तासां तदा दूरप्रयाणादिति भावः / ऊचे बभाषे। 'उच्चरवोचिरे राज्ञा' इति पाठान्तरम् / किमिति ? वः युष्माकम् , इयम् एषा सखी वयस्या दमयन्ती, इदं वक्ष्यमाणम्, आह वक्ति। किमिति ? एताभ्यां कलातत्सखीभ्याम् / मम मे, मर्म रहस्यवृत्तान्तः, श्रुतम् आकर्णितम्, न तु दृष्टम्, मया भैग्या तु, एतयोः कला. तत्सपक्षयोः, मर्म रहस्यम्, गोपनीयाङ्गमित्यर्थः / दृष्टं प्रत्यक्षीकृतम्, आर्द्राभूतवस्त्रा. भ्यन्तरादिति भावः / श्रवणादर्शनस्य अधिकविश्वास्यतया अहमपि सर्वमेव प्रकाश. यितु शच्यामीति मर्मश्रवणात्तदर्शनं दुःसहमिति तात्पर्यम् // 133 // 1. 'उपेक्षेते' इति पाठान्तरम्। 2. उच्चैरवोचिरे राज्ञा' इति पाठान्तरम् / 3. 'तत्त मयाऽनयोः' इति पाठान्तरम् /