________________ 1358 नैषधमहाकाव्यम् / चेत् यदि, वञ्चितो प्रतारितो, स्वः भवावः आवामिति शेषः / तत् तर्हि, आरस्व तिष्ठ, एतदर्थ स्वां यथोचितं दण्डयामि क्व गमिष्यसीति भावः // 114 // निषधराज ( नल ) ने सखीसे उस प्रकार ( 20 / 112 ) कहती हुई उस 'कला' से कहा-'मिथ्या शपथ लेने के साहस ( 20 / 107 ) से यदि हम दोनोंको तुमने वञ्चित किया है तो ठहरो अर्थात् मिथ्या शपथसे वञ्चित करने से हम दोनों तुम्हें दण्डित करेंगे' / / 114 / / प्रत्यलापीत् कलाऽपीमं कलङ्कः शङ्कितः कुतः ? | प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता / / 115 / / प्रत्यलापीदिति / कला अपि तन्नामसखी अपि, इमं नलम् , प्रत्यलापीत् प्रत्यवो. चत् / लपेटुंडि 'अतो हलादेलघोः' इति निषेधविकल्पात् सिचि वृद्धिः / हे राजन् ! त्वया भवता, अद्य एव अस्मिन्नेव दिवसे, न तु इतः पूर्व कदापीति भावः / प्रियायाः भैम्याः परिजनेन सखीजनेन, उक्तस्य कथितस्य वचनस्य, मृषोद्यता मिथ्यावादि. त्वम् / 'राजसूयसूर्यमृषोद्य-' इत्यादिना मृषापूर्वाद्वदेः क्यबन्तो निपातः। अनृत वादितारूप इत्यर्थः / कलङ्कः अपवादः, कुतः कथम् , शङ्कितः सम्भावितः ? भवत्प्रियायाः सदा सत्यवादित्वात् तत्परिजनानामस्माकमपि मिथ्यावादित्वं न सम्भवति इति भावः / वृत्तस्यापि रात्रिव्यापारस्य न वृत्तमिति अपलापवत् अस्माकमपि तत्परिजनानां तथा व्यवहारः न दुष्यतीति तु निगढतात्पर्यम् // 15 // 'कला' ने भो उस ( नल ) को प्रत्युत्तर दिया कि-( हे राजन् ! ) आप आज ही ( दूसरे किसी दिन नहीं ) प्रिया ( दमयन्ती) के परिजनों ( सखी-मुझ 'कला') के कथनकी असत्यभाषितारूप कलङ्ककी : यो शङ्का कर रहे हैं। [ सत्यवादिनी दमयन्तीके परिजनों के भाषण में असत्य भाषणरूप कलक होने का सन्देह आपको नहीं करना चाहिये, क्योंकि रात्रि में किये गये सुरतको आपकी प्रिया एवं हमारी स्वामिनी दमयन्ती नहीं हुआ बतला रही है, अत एव परिजनको स्वाभ्यनुकूल बर्ताव करना ही उचित होनसे मेरा यह व्यवहार भी आपको सदोष नहीं मानना चाहिये ] / / 115 / / सत्यं खलु तदाऽश्राप पर धुमुधुमारवम् / शृणोमीत्येव चावोचं न तु त्वद्वाचमित्यपि / / 116 / / सत्यमिति / अथवा तदा पूर्वोक्तशपथात् पूर्व कर्णरोधसमये, परं केवलम् , धुमु. धुमारवं 'धुम् धुम्' इत्येवमाभ्यन्तरिकं शब्दम , सत्यं खलु सत्यमेव, अश्रौषम् आक. र्णितवती, अहमिति शेषः / च किञ्च, शृणोमीत्येव 'अशृणवन्तमाम्' इत्यनेन श्रवण. मात्रमेव, अवोचम् अकथयम , अपि तु परन्तु त्वद्वाचं भवदीयवाक्यम् , अशृणवन्त. मामिति शेषः, इति न, अवोचमित्यनेनान्वयः / यस्मात् शृणोमीत्युक्तं, तस्मान्नात्र मृषोद्यतादोषः, शब्दश्रवणस्य सत्यत्वादिति भावः // 116 // 1. 'प्रियापरिजनस्योक्तौ' इति पाठान्तरम्। 2. 'गुमुगुमा'-इति पाठान्तरम् /