________________ 762 नैषधमहाकाव्यम् / भीनि गजदन्तसन्निभानि, एतद्यशांसि प्रथिमभरवशात् महिमातिशयवशात् , मात्राबाहुल्यादिति भावः, तत्र विष्णोरुदरस्थितायां त्रिलोक्यां, सम्मातुं वर्तितुं, सुखेन स्थातुमित्यर्थः, न शक्तिमन्ति अशक्तानि सन्ति, ताम् एतां दामोदरोदरदरी, पूरयित्वा मधुध्वंसिनो विष्णोः, पाण्डुपद्मच्छमापन्नानि नाभिपुण्डरीकव्याजापन्नानि सन्ति, नाभीपथेन नाभिविवरेण, निरगुरिव बहिः निर्गतानि इव रेजुरिति शेषः, विष्णोरुदरे सङ्कटवासयातनाभयात् नाभिरूपमार्गेण बहिर्निर्गतानीवेत्यर्थः / अत्र पद्मच्छद्मना निरगुरिवेति सापहवोत्प्रेक्षा- सा च त्रिलोकीयशसोः आधाराधेययोः आनुरूप्यवलक्षण्यात् विलक्षणालङ्कारश्च इत्यनयोः सङ्करः॥९५ // यह त्रिलोकी विष्णु भगवान्की जिस उदररूपी गुहामें निवास करती है, उस (विष्णु भगवान्के उदररूपी गुहा ) में अधिक होने के कारण नहीं समाते हुए सुप्रसिद्ध, श्वेतकमलके कपटको प्राप्त अर्थात् श्वेत कमल बने हुए एवं हाथीके दांतके समान ( श्वेत वर्ण) इस राजाके यश विष्णु भगवानकी उस ( उदररूपी गुहा) को परिपूर्ण करके मानो ( बाहर ) निकल गये हैं। [विराटप विष्णु भगवान्के उदर में त्रिलोकी वास करती है, किन्तु इस राजाके विशाल यश उसमें नहीं समा सकनेके कारण मानो श्वेत कमलके छलसे बाहर निकल गये हैं / लोकमें भी किसी छोटे पात्र में जो कोई पदार्थ नहीं समाता, वह बाहर निकल जाता है। श्वेत यश ही विष्णु भगवान्के नाभिकमलके रूपसे बाहर निकला हुआ है / इस राजाके यश बहुत विशाल तथा त्रिलोकीसे भी बाहर व्याप्त हैं ] ||95 / / अस्यासि जगः स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलबलनस्तेषां भिये भूभुजाम् | सङ्नामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जागुलिकता यैर्नाम नालम्बिता // 96 / / श्रस्येति / स्वकोशात् चर्ममयनिजपिधानादेव, विवरात् बिलात् , आकृष्ट उद्धृतः स्फुरत्कृष्णिमा व्यक्तकृष्णवर्णः, कम्पेन धूननेन, उन्मीलन्ती प्रकाशमाना, अराललीला वक्रविलासा, यस्य तादृशं वलनं गमनविशेषः यस्य सः प्रकटकुटिलगतिः इत्यर्थः, अस्य असिः एव भुजगः तेषां भूभुजां राज्ञां, भिये भीतये, भवति इति शेषः, यैर्नाम यः नृपतिभिः किल, सङ्ग्रामेषु युद्धषु, निजामुलीमयी स्वाङ्गुलीरूपा, महती सिद्धा अमोघा, ओषधीवीरुत् ओषधिलता तस्याः, ओषधी इति जातिविषयत्वात् स्त्रीत्वे वा ङीप पर्वग्रन्थि, 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः / आस्ये मुखे, विनिवेश्य निधाय, जाङ्गुलिकता विषवैद्यता, 'विषवैद्यो जाङ्गुलिकः' इत्यमरः / न आलम्बिता न स्वीकृता; यथा मुखान्तर्गतौषधं गारुडिकं सर्पो न हन्ति तदादेशे मौनमवलम्व्य प्रणिपाताअलिम् अकुर्वतः शत्रुनृपान् असौ नृपतिः हन्ति इति भावः / रूपकालङ्कारो व्यज्यते एव // 96 //