________________ विंशः सर्गः। 1333 अथेति / अथ राजवाक्यानन्तरम् , सा कला, भैम्याः दमयन्त्याः , उपवदने आन. नसमीपे। सामीप्येऽव्ययीभावः, 'तृतीयासप्तम्योबहुलम्' इति विकल्पात् सप्तम्यां नाम्भावः। स्वकर्णस्य निजश्रवणस्य, उपनयच्छलात् समीपनयनव्याजातू , ततः तस्याः भैम्याः,श्रतौ कर्णे, निजास्यं स्वमुखम् सन्निधाप्य सन्निहितं कृत्वा, तां भैमीम् , जगाद बभाषे // 62 // इस ( नलके ऐसा ( 20154-61) कहने ) के बाद उस ( 'कला' नामकी सखी) ने दलयन्तीके मुखके पास अपना कान करनेके छलसे उस ( दमयन्ती ) के कानों ( के पास) में अपना मुख लगाकर उस ( दमयन्ती ) से बोली / / 62 / / अहो ! मयि रहोवृत्तं धूर्त ! किमपि नाभ्यधाः। . आस्स्व सत्यमिमं तत्त भूपमेवाभिधापये / / 63 / / अहो इति / धूर्ते ! हे वञ्चनपरे ! मयि अस्मत्समीपे, रहोवृत्तं रहस्यचेष्टितम् , चुम्बनालिङ्गनादिरूपं निर्जनवृत्तान्तमित्यर्थः / किम् अपि किञ्चिदपि, न अभ्यधाः न अभिहितवती असि, त्वमिति शेषः, इत्यहो ! आश्चर्यम् ! भवतु, भास्स्व तिष्ठ / इमम् अमुम् , भूपं राजानं नलमेव, ते तव, तत् रात्रिचेष्टितमित्यर्थः / सत्यं यथायथम् , अभिधापये वाचयामि, कौशलेन भूपमेव सर्व ख्यापयिष्यामि इत्यर्थः / 'गतिबुद्धि-' इत्यादिना शब्दकर्मत्वादणिकत्तः कर्मस्वम् / राजा यथा स्वयमेव तव रहस्यवृत्तान्तं कथयति तथा करोमि इति निष्कर्षः // 63 // हे धूते ( दमयन्ती ) मुझसे तुमने एकान्तमें हुए कुछ भी ( आलिङ्गन चुम्बनादि ) वृत्तान्त नहीं कहा, अहो ! आश्चर्य है (कि तुम जैसी धूर्ता सखोको मैंने कहीं नहीं देखा) सो ठहरो, उस ( एकान्तके वृत्तान्त ) को मैं सत्य बोलनेवाले राजा ( नल ) से ही कहलाती हूँ। (अथवा-उस सत्य अर्थात यथार्थ वृत्तान्तको में भूप' पाठा०-मैं राजा नलसे ही उस असभ्य ( सब समामें अकथनीय होनेसे अश्लील ) वृत्तान्तको शीघ्र कहलवाती हूँ]॥ 13 // स्मरशास्त्रमधीयाना शिक्षिताऽसि मयैव यम् / अगोपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ? / / 64 / / स्मरेति / स्मरशास्त्रं वात्स्यायनादिकामतन्त्रम् , अधीयाना पठन्ती, मत्तः अभ्यस्यन्तीत्यर्थः / स्वमिति शेषः / यं दाम्पत्यव्यत्ययमित्यर्थः / मया कलयैव, अध्यापिकया एव इति यावत् , शिक्षिता उपदिष्टा, असि भवसि / 'ब्रविशासि-' इति शासेरर्थग्रहणात् द्विकर्मकरवम् 'अप्रधाने दुहादीनाम्' इति अप्रधाने कर्मणि कः / त्वया भवत्या, स मदुपदिष्टः, दाम्पत्यव्यत्ययः दाम्पत्यस्य दम्पतिव्यवहारस्य स्वाभाविकविहारस्य, व्यत्ययः वैपरीत्यम् , अन्यथाचरणमित्यर्थः / विपरीतसम्भोगः इति यावत् / कृत्वाऽपि स्वयं निष्पाचापि, किं किमर्थम् , अगोपि ?