________________ विंशः सर्गः। 1331 यदुक्तं कलया 'कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया' इति तत्रोनरमाह-शृणीति / एतस्याः दमयन्त्याः, कुचाभ्यां स्तनाभ्याम्, कुम्भिकुम्भयोः गजस्य शिरस्थपिण्डयोः सम्बन्धिनी, शृणीपदानि अङ्कुशक्षतानि एव, सुचिह्नानि उत्कृष्टलक्ष्माणि यस्याः सा तादृशी, श्रीः शोभा सम्पत्तिश्च, चोरिता अपहृता, इति पश्य एतत् त्वं स्वयमेवावलोकय / नखपदस्य अङ्कशपदवदेव परिदृश्यमानत्वादिति भावः। तत् तस्मात् , चौर्यापराधाद्धेतोरित्यर्थः। नृपः दण्डधरः, चौर्योचितदण्डविधाता इत्यर्थः, अहं नलः, तो कुचौ, न पीडयामि ? न दण्डयामि ? न मर्दयामि च ? अपि तु पीडयाम्येव, दुष्टनिग्रहाधिकारात् राज्ञामिति भावः // 58 // इसके दोनों स्तनोंने अङ्कुशाघात ( नखक्षत ) रूप सुन्दर चिह्नवाली हाथीके कुम्भों ( मस्तकस्थ मांस-पिण्डों) की शोभाको चुरा लिया है, उस कारण राजा ( मैं ) उन्हें ( उन दोनों स्तनोंको) पीड़ित ( दण्डित, पक्षा०-हस्तमर्दित) नहीं करूँ ? (पाटा०पीड़ित करता हूँ)। [चोरको दण्डित करना राजाका धर्म होनेसे नखक्षतसे अङ्कुशक्षत गजकुम्भकी शोभाको चुरानेवाले इसके स्तनोंको कर मर्दनरूप दण्ड देना मुझे उचित ही है ] / अधरामृतपानेन ममास्यमपराध्यत / मृद्धर्ना किमपराद्धं यः पादो नाप्नोति चुम्बितुम् ? / / 56 }! अधरेति / हे कले ! मम मे, आस्यं मुखम, अधरामृतपानेन अधरसुधास्वादनेन हेतुना, अपराध्यतु अनभिमताचरणात् अपराधि अस्तु / अत एव अपराधिनः अस्य एषा दण्डं विदधातु इति भावः / किन्तु मूद्धर्ना मम शिरसा, किम् अपराद्धम् ? का अपराधः कृतः ? यः मूर्धा, पादौ अस्याश्चरणौ, चुम्बितुं स्प्रष्टमित्यर्थः / न आप्नोति ? न लभते ? तत् पृच्छ इति शेषः // 59 // (इस दमयन्तीके ) अधरके अमृतका (चुम्बन करते हुए ) पान करनेसे ( मेरा) मुख भले ही अपराधी हो, ( किन्तु मेरे ) मस्तकने क्या अपराध किया है जो ( दमयन्तीके ) चरणोंका चुम्बन (प्रसादनार्थ स्पर्श) भी नहीं पाता है ? // 59 // अपराद्धं भवद्वाणी-श्राविणा पृच्छ कि मया ? / वीणाऽऽह परुषं यन्मां कलकण्ठी च निष्ठुरम् / 60 / / अपरामिति / यत् यस्मात् , वीणा वाधविशेषः, मां नलं, परुषं कर्कशम् अप्रि. यवाक्यञ्च, आह ब्रवीति, कलकण्ठी च कोकिला अपि, मां निष्ठरं कठोरं. सतिरस्कारश्च, आह, अतः हे कले! पृच्छ जिज्ञासय, त्वं वः सखीम् इति शेषः। भवत्याः तव दमयन्त्याः, वाणी वाक्यम् , शृणोति आकर्णयतीति तच्छाविणा, मया नलेन, किम् अपराद्धम् ? कोऽपराधः कृतः ? न किञ्चिदप्यपराद्धम् इत्यर्थः। लोकानामयमेव स्वभावो यत् परुषनिष्ठरवाक्यश्रवणसन्तप्तचित्तं प्रशमयितुं सुमधुरं वाक्यं श्रोतुः मिच्छा भवतीति तयोः पारुष्यदोषादरुच्या त्वत्सख्याः सुमधुरां वाणी शुश्रूषुः अहं सम्भाषणेन वः सख्या अनुकम्पनीयः इति भावः // 6 //