SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1304 छेत्तुमिन्दौ भवद्वक्त्र-बिम्बविभ्रमविभ्रमम् | शङ्के शशाङ्कमानके भिन्नभिन्नविधिविधिः / / 20 // छेत्तमिति / हे प्रिये ! भिन्नभिन्नः पृथक् पृथक् प्रकारः, अत्यन्तविलक्षणरूप इत्यर्थः / विधिः निर्माणब्यापारः यस्य सः तादृशः, विधिः विधाता, इन्दौ चन्द्रे, भवत्याः तव, वक्त्रबिम्बस्य मुखमण्डलस्य / 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' / यः विभ्रमः शोभा, तस्य विभ्रमं भ्रान्तिम् / 'विभ्रमः संशये भ्रान्तौ शोभायाञ्च' इति यादवः / सादृश्यजन्यं लोकानां तव मुखभ्रममित्यर्थः। छेत्तुं निराकर्तुम् / छिदेः तुमुन् / शशाङ्क शशस्य मृगस्य, अङ्कं चिह्नम् , आनङ्के अक्षितवान् / 'अकि लक्षणे' इति धातोभौंवादिकाल्लिटि तङ्, 'तस्मान्नुड् द्विहलः' इति नुडागमः। इति शङ्के मन्ये, अहमिति शेषः / ईदृशाकरणे निश्चितमेवं इन्दौ लोकानांतव मुखभ्रान्तिरुत्पद्येत इति भावः // 20 // मिन्न-भिन्न विधिदाले अर्थात् प्रत्येक वस्तुकी एक दूसरेसे भिन्न रचना करनेवाले ब्रह्माने तुम्हारे मुखकी शोभाके विशिष्ट भ्रम ( अथवा-विलास ) को नष्ट करनेके लिए चन्द्रको शशसे चिह्नित कर दिया है, ऐसी मैं शङ्का करता हूँ। [ यदि चन्द्रमें शशचिह्न नहीं होता तो वह तुम्हारे मुखकी शोमाको प्राप्त करता, तथा 'यह चन्द्र है या दमयन्तीमुख ?' इस प्रकारका भ्रम लोगोंको हो जाता; किन्तु वैसा नहीं होनेसे इस समय तुम्हारा मुख चन्द्रसे भी अधिक सुन्दर है तथा लोगोंको तुम्हारे मुख तथा चन्द्र के पहचाननेमें भ्रम नहीं होता है ] // 20 // ताम्रपर्णीतटोत्पन्नैर्मोक्तिकैरिन्दुकुक्षिजैः / बद्धस्पद्धतरा वर्णाः प्रसन्नाः स्वादवस्तव / / 21 // ___तामेति / प्रसन्नाः प्रसादगुगसम्पन्नाः, सुस्पष्टा इत्यर्थः। स्वच्छाश्व, स्वादवः मनोज्ञाः, श्रवणपिपासावर्द्धकाः इति यावत् / सुमधुराश्च 'स्वादू मिष्टमनोज्ञयोः' इति मेदिनी। तव भवत्याः, वर्णाः स्वन्मुखोच्चरितानि अक्षराणि, ताम्रपाः तदाख्यायाः स्वच्छजलायाः कस्याश्चित् नद्याः, तटे तीरदेशे, उत्पन्नः सञ्जातः, अत एव स्वच्छरिति भावः / तथा इन्दुकुक्षिजैः चन्द्रग त्पन्नश्च, अत एव पीयूषसम्पर्कात् मधुरे। रिति भावः / मोक्तिः मुक्ताफलैः सह, बद्धस्पर्द्धतराः बद्धा वृता इत्यर्थः, स्पर्धा सादृश्यजनिताभिमानः यस्ते तादृशाः बद्धस्पर्धाः अतिशयेन बद्धस्पर्धाः बद्धस्पर्द्ध तराः, भवन्तीति शेषः / ततोऽपि तव वर्णानामेव अधिका स्वच्छता मधुरता च इति भावः // 21 // ताम्रपर्णी नदीके तीर में तथा चन्द्र (पक्षा०-गन्ने ) के मध्यमें उत्पन्न मोतियोंसे ( स्वच्छता स्वादुतामें समानता होने के लिए ) अधिक स्पर्धा करनेवाले तुम्हारे वर्ण (मुखो. 1. '-रिनुकुक्षिजेः' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy