________________ विंशः सर्गः। सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् / स प्राप रथपाथोभृद्वातजातजवो दिवः // 1 // सौधेति / वातवत् वायुरिव, जातः समुत्पन्नः, जवः, वेगः यस्य सः तादृशः, अन्यत्र-वातात् वायोः, जातः उत्पन्नः, जवः वेगो यस्य स तादृशः, स पूर्वोक्तः अतिपुष्पकः, रथः स्यन्दन एव, पाथोभृत् जलधरः, दिवः स्वर्गात् आकाशाच्च / 'धौश्च स्वर्गतन्मार्गयोः' इति विश्वः / सौधः अट्टः एव, अद्रिः पर्वतः, तस्य कुट्टिमम् उपरिगृहेषु विविधरत्नादिनिबदभूमिः / 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः / तदेव अनेके धातवः नानाविधगैरिकादयः यत्र सा ताहशी / 'शेषाद्विभाषा' इति कप् / अत्यधिका ऊर्ध्वभूमिप्रदेशः, तस्याः तटं पर्यन्तप्रदेशं शिखरञ्ज्ञ, प्राप लेभे / रूपकालङ्कारः॥१॥ वायुसे भी अधिक तीव्र चलनेवाला ( अथवा-वायु भी जिससे वेगवान् है, ऐसा ) वह रथरूपी मेघ स्वर्ग ( पक्षा०-आकाश) से प्रासादरूपी पर्वतके ( नानावणं मणियोंसे जटित ) भूमि ( फर्श ) रूपी (गैरिकादि ) अनेक धातुवाली पर्वतकी ऊपरी भूमिके तटको प्राप्त किया। [जिस प्रकार वायुसे वेगयुक्त मेघ आकाशसे नानाधातुयुक्त पर्वताधित्यकाके तटको प्राप्त करता है, उसी प्रकार नलका वायुसे : भी तीव्रगामी वह प्रसिद्ध रथ प्रासादके अनेक वर्णवाले रत्नोंसे जड़ी हुई भूमिके पर्यन्तप्रदेशको प्राप्त किया अर्थात् पहुँचा ] // 1 // ततः प्रत्युदगाद् भैमी कान्तमायान्तमन्तिकम् / प्रतीचीसिन्धुवीचीव दिनोङ्कारे सुधाकरम् / / 2 / / तत इति / ततः स्थस्य कुट्टिमतटप्राप्त्यनन्तरम् , भैमी दमयन्ती, :दिनस्य दिवसस्य, ओङ्कारे प्रारम्भे, गायत्र्यादीनां प्रारम्मे एव ओङ्कारप्रयोगदर्शनादत्रापि ओङ्कारशब्दस्य आरम्भार्थे लक्षणा ज्ञातव्या / 'ओमाडोश्च' इति पररूपत्वम् / प्रतीचीसिन्धोः पश्चिमदिगवस्थितसमुद्रस्य, वीची अमिः, अन्तिकं समीपम् , आयान्तम् आगच्छन्तम् , कान्तं रमणीयम् , सुधाकरं चन्द्रमिक, प्रत्यूषे एव अस्तो. न्मुखतया सुधाकरस्य पश्चिमार्णवतरङ्गलग्नवत् प्रतीयमानत्वादिति भावः / अन्तिकं समीपम् , मायान्तम् आगच्छन्तम् , कान्तं पति नलम्, प्रत्युदगात सादरं प्रत्युस्थि. तदनन्तर समीप आते हुए पति ( नल ) का दमयन्तीने उस प्रकार प्रत्युद्गमन ( अग. वानी-अभ्युत्थान ) किया, जिस प्रकार दिनके आरम्भ (प्रातःकाल) के समीप आते