SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 1268 नैषधमहाकाव्यम् / होता है। बहुत सहचरियों के द्वारा भूषण लानेसे भूमणोंकी अधिकता तथा दमयन्तीके अपने शरीरके भूषणों को पारितोषिकमें देनेसे भूषणों की बहुमूल्यता सूचित होती है ] / / 65 / / आगच्छन् भणतामुषः क्षणमथातिथ्यं दशोरानशे स्वर्गङ्गाम्बुनि वन्दिनां कृतदिनारम्भाप्लुतिभूपतिः / आनन्दादतिपुष्पकं रथमधिष्टाय प्रियायौतुक प्राप्तं तैरवरागतैरविदितप्रासादतो निर्गमः / / 66 / / आगच्छन्निति / अथ दमयन्त्याः प्रसाददानानन्तरम् , अवरागतैः अवरं पश्चात् , स्नानार्थ नलस्य बहिर्गमनानन्तरमित्यर्थः / आगतैः उपस्थितैः, नलस्य निद्वापनयनार्थ प्रासादे इति शेषः / तैः वैतालिकः, अविदितः अज्ञातः, पश्चादागतत्वादिति बोध्यम् , प्रासादतः हात् , निर्गमः बहिनिष्क्रमण यस्य स तादृशः, भूपतिः पृथ्वीशः नलः, स्वर्गङ्गाम्बुनि मन्दाकिनीप्रवाहे, कृतदिनारम्भाप्लुतिः कृता सम्पादिता, दिनारम्भस्य प्रभातकालस्य, आप्लुतिः निमजनम् , स्नानमित्यर्थः, येन स तादृशः, कृतप्रातःस्नानः सन् , एतेन नलस्य महाधार्मिकत्वं प्रतिपाद्यते / प्रियायाः भैम्याः, यौतुके विवाहकालिकोपाहरणे, प्राप्तं लब्धम्, भीमदत्तमित्यर्थः। अतिक्रान्तः पुष्पकम् अतिपुष्पकं पुष्पकादपि उत्कृष्टमित्यर्थः / 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः, 'द्विगुप्राप्तापन्नालम्'-इत्यादिना 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति प्राप्तस्य परवल्लिङ्गत्वस्य प्रतिषेधः / रथं स्यन्दनम् , अधिष्ठाय आस्थाय / 'अधिशोङ-' इत्याधारस्य कर्मत्वम् / आनन्दात् हर्षात् , दमयन्तीसमागमाशया इति भावः / आगच्छन् प्रत्यावर्त्तमानः सन् , उषः प्रभातकालम् , भणतां तथैव वर्णयताम , वन्दिनां वैतालिकानाम् , दृशोः नेत्रयोः दृशाम् इत्यर्थः / आतिथ्यम् आगन्तुकत्वम , विषयत्वमिति यावत् , क्षणं किञ्चित्कालम् , सौधान्तःप्रवेशात् पूर्वपर्यन्तमित्यर्थः / आनशे प्राप्तः, तैदृष्टः इत्यर्थः अत आदेः' इत्यभ्यासदीर्घः, 'अश्नोतेश्च' इति नुडागमः अत एव नलस्य स्नानार्थ गमनात् पूर्वश्लोके देव्यंव पारितोषिकं दत्तमित्युक्तम् // 66 // ___ इस ( दमयन्तीके दिये पारितोषिक-भूषणोंको वन्दियों द्वारा धारण करने ) के बाद ( नलको नित्यक्रियासम्पादनार्थ बाहर जाने के ) अनन्तर ( उनको जगानेके लिए उपस्थित ) वन्दियोंसे नहीं मालूम किया गया है बाहर निर्गमन जिसका ऐसे तथा प्रातःकाल आकाशगङ्गामें गोता लगाये ( स्नान किये ) हुए दमयन्तीके विवाह के समय दहेजमें ( भीमराजाके द्वारा ) दिये गये एवं पुष्पकविमानातिशायी ( कुबेरके पुष्पक विमानकी अपेक्षा उत्तम ) रथपर चढ़कर ( दमयन्तीका पुनर्मिलन होनेकी आशासे ) आनन्दपूर्वक आते हुए राजा १.'-यौतुके' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy