________________ ऊनविंशः सर्गः / . 1261 साथ वास्तविक समानता नहीं होती तो कमलों को विकसित करते समय सूर्य नेत्रोंको विकसित (निद्रारहित ) नहीं करते तथा विष्णु भगवान् भी सहस्र कमलोंसे शिव-पूजन करते समय एक कमलके कम हो जानेपर उसके स्थान में अपना नेत्र समर्पणकर कमलोंकी सहस्र संख्याको पूरी नहीं करते, किन्तु दूसरा कमल लाकर ही उसे पूरी करते, इससे विदित होता है कि कमलों एवं नेत्रोंकी वास्तविक समानता है और इसी मूलकारणको लेकर कविलोग भी कमलोंकी नेत्रों के साथमें उपमा बड़े आदरके साथ देते हैं। कमल विकसित हो गये, सभी लोग निद्रा त्यागकर उठ गये, अतः अब आप भी निद्रा त्यागकर उठे ] // 58 // अवैमि कमलाकरे निखिलयामिनीयामिकश्रियं श्रयति यत् पुरा विततपत्रनेत्रोदरम् / तदेव कुमुदं पुनर्दिनमवाप्य गर्भभ्रमद् द्विरेफरवघोरणाघनमुपैति निद्रामुदम् / / 56 / / अवैमीति / यत् कुमुदम् , कर्त्त / पुरा इतः पूर्वम् , कमलाकरे पद्माकरे सरसि, कमलायाः पद्मालयायाः लचम्याः, धनसम्पत्तिरूपायाः इति यावत् / आकरे वसति. स्थाने कोषागारे च, विततानि विस्तृतानि, पत्राणि दलानि एव, नेत्रोदराणि नय. नमध्यानि यस्य तत् तादृशं सत् , निखिलायां समनायाम , यामिन्यां 'रजन्याम् , यामिकः प्राहरिकः, प्रहरिरूपेण जागरूक इत्यर्थः / तस्य श्रियम् इव श्रियं शोभाम् , सादृश्यमित्यर्थः / इति सादृश्याक्षेपानिदर्शनाभेदः / श्रयति भजते स्म / 'पुरि लुङ चास्मे' इति चकाराद् भूते लट् / तदेव उक्तरूपमेव, कुमुदं कैरवम् , पुनः इदानीम् , दिनं दिवसम् , अवाप्य, गर्भे अभ्यन्तरे, भ्रमतां घूर्णमानानाम् , द्विरेफाणां भ्रमराणाम्, प्रातःकाले कुमुदानां मुद्रणात् तदन्तराबद्धानामिति भावः / रवः शब्द एव, घोरणा निद्रितस्य घर्घरशब्दाधिक्यम्, नासागर्जनमिति भावः। घुर भीमार्थ. शब्दयोः इति तौदादिकाद्भावे 'ल्युट / तस्याः घनं गाढं यथा तथा, निद्रामुदं निद्रा निमीलनं.स्वप्नश्च, तस्याः मुदं सुखम् , उपैति लभते, 'अवैमि इति मन्ये, इत्युत्प्रेक्षायाम् / / रात्री जागरितो हि दिवा निद्रातीति दृश्यते / अत्र एकस्मिन् कुमुदे अनेक. योनिद्वाजागरयोः क्रमेण प्रत्यभिधानात् 'एकस्मिन्नथवाऽनेकम्' इत्युक्तलक्षणपर्यायालङ्कारेण पूर्वोक्तनिदर्शना सङ्कीर्णा / पृथ्वीवृत्तं-'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरु' इति लक्षणात् // 59 // कमलाकर (कमल-समूह, या-कमलोंके आकर तडाग; पक्षा०-कमला=सम्पत्तिके 1. 'भीमशब्दार्थाद्धरेर्णिजन्तात्' 'ण्यासश्रन्थ-' इति युच् इति 'प्रकाश' कारः। 2. 'अवैमि-इत्युत्प्रेक्षायाम्। 'एकस्मिन्..."सङ्कीर्णा' इति 'जीवातु' रिति म० म०शि० द. शर्माणः / _____81 नै० उ०