________________ ऊनविंशः सर्गः। 1287 शुभावहत्वात् उभयोरपि समानधावल्याच्चेति भावः / यद्वा-श्रेयसे स्वर्गाय, सृष्टः शब्दः यस्य तं तादृशम् , शङ्ख कम्बुम् , यशः ब्रूमः स्वदीययशस्त्वेन वर्णयामः इत्यर्थः / यस्य यशसः, सोदयः समानम् उदरं यस्य सः तादृशः सहोदरः भ्राता, शङ्खचन्द्रयोरुभयोरपि एकसमुद्रजत्वादिति शौक्ल्यात् सदृश इति वा भावः / समा. नोदरे शयितः इत्यस्मिन्नर्थे 'सोदरात् यः' इत्यनेन यप्रत्यये विवक्षिते 'विभाषोदरे' इत्यनेन प्रागेव यप्रत्ययात् समानशब्दस्य सभावः / सशस्वाभिमानी इति फलि. तार्थः / स प्रसिद्धः, द्विजेन्द्रः चन्द्रः, दिवि गगने, लिखितः चित्रितः, किरणक्षयेण निष्प्रभत्वात निष्क्रियत्वाच्च चित्रितवदिति भावः / स्पष्टं सुव्यक्तम् , अस्ति वर्तते। इह अधुना प्रभातकाले, अश्रद्धाकरम् अनादरावहम् , प्रभाक्षयादेव इति भावः, यद्वा-श्रद्धाकरं प्रत्यक्षत्वेन विश्वासावहम्, अस्य चन्द्रस्य, अद्धा तत्त्वतः, सूर्यते. जसा अभिहतत्वात् यथार्थमित्यर्थः / करच्छेदम् अंशुनाशम् अपि, पश्य अवलोकय किञ्च, हारिणो हरिणात्मकः, यः कलङ्कः चिह्नविशेषः, अत्र विद्यते इति शेषः / तदपि तच्चिह्नमपि, नितराम् अत्यर्थम्, म्लानेः मलिनतायाः, स्थानम् आस्पदम् , विलुप्तप्रभत्वादिति भावः / पश्येति पूर्वणान्वयः / अतः शीघ्र शयनं त्यजेति भावः / अन्यच्च-श्रेयसे धर्मोपदेशरूपमङ्गलाय, सृष्टशब्दं रचितस्मृतिग्रन्थम् , शङ्क शङ्खाख्यं मुनिम्, तव यशः यशस्तुल्यं यशस्विनमित्यर्थः / यद्वा-शङ्खम् , तव यशःश्रेयसे कीर्तरुत्कर्षरूपमङ्गलायेत्यर्थः / तद्रचितविधानानुसारेण कर्मानुष्ठानात् यशोवृद्धेरिति भावः / सृष्टशब्दं ब्रूमः कथयामः। यस्य शंखस्य, सोदयः भ्राता, स प्रसिद्धः, द्विजेन्द्रः ब्राह्मणोत्तमः, लिखितः लिखिताख्यः मुनिः, दिवि स्वर्गे, स्पष्टं सवैतित्वात् सुव्यक्तम् , अस्ति विद्यते, इति अद्धा सत्यम् / किञ्च, इह अस्मिन् शङ्खलिखितयोश्चरितविषये, श्रद्धाकरं विश्वासजनकम् , अस्य लिखितस्य, करच्छेदं हस्तच्छेदनम् अपि, चौर्यापराधेन राजाज्ञया इति भावः। पश्य अवलोकय, विवेचयेत्यर्थः / पुराणोक्तत्वादिति भावः / हारिणः ज्येष्ठस्य भ्रातुः शङ्खमुनेः आश्रमे फलापहारकस्य, लिखितस्य इति शेषः। यः कलङ्कः सहोदराश्रमे फलचौर्यरूपः अपवादः, तदपि नितराम् अत्यर्थम् , म्लानेः विषादस्य, स्थानं कारणम्, जानीहि इति शेषः / अत्र महाभारतीयशान्तिपर्वणि सुद्युम्नोपाख्यानम्-'ततः स पृथिवी. पालो लिखितस्य महात्मनः / करौ प्रच्छेदयामास तदण्डो जगाम सः॥' इति / अत्र विशेषणविशेष्ययोरपि श्लिष्टत्वादभिधायाः प्रकृतार्थत्वात् अप्रकृतार्थध्वनिरेवेति सक्षेपः। मन्दाक्रान्तावृत्तम् // 56 // ( अब शङ्ख बजानेवालेके शङ्खकी ध्वनिको सुनकर वैतालिकलोग शङ्खके व्याजसे नलके यशका वर्णन करते हैं-) हे नल ! मङ्गलके लिए बजाये गये शङ्खको ( हमलोग ) तुम्हारा यश कहते हैं ( शुभ्र वर्ण तथा पुण्यश्लोक होने के कारण मङ्गलकारक होनेसे तुम्हारा यश शङ्खके समान है ऐसा हमलोग कहते हैं / अथवा-स्वर्गके लिए बजाये गये शङ्खको हम लोग