________________ ऊनविंशः सर्गः। 1277 रुचिरचरणः सूतोरुश्रीसनाथरथः।शनि शमनमपि स त्रातुं लोकानसूत सुताविति | रथपदकृपासिन्धुबन्धुर्दशामपि दुर्जनै यदुपहसितो भास्वान्नास्मान् हसिष्यति कः खलः ? // 47 / / ननु ईदृशबाहुल्येन सूर्यवर्णनं लोकानां हासजनकं भवितुमर्हति इत्याशङ्कयाहरुचिरेति / रुचिरचरणः मनोज्ञाचरणशीलः, जगदाबादकत्वादिति भावः / अथ च विपरीतलक्षणया अरुचिरचरणः किरणार्थस्य पादशब्दकस्य चरणपर्यायकत्वात् तीव्रपादः इत्यर्थः, सन्तापकत्वादिति भावः / तथा सूतया प्रसूतया, उदयानन्तरं प्रकाशितया इत्यर्थः / उर्ध्या प्रचुरया, श्रिया शोभया, अथ च, सूतस्य सारथेः अरु स्य, अनूरोरिति भावः। 'सूरसूतोऽरुणोऽनूरुः' इत्यमरः / ऊर्वोः सक्थिद्वयस्य, 'सक्थि क्लीबे पुमानूरुः' इत्यमरः। श्रिया शोभया, इति सोपहासोक्तिः, सनाथः युक्तः, रथः स्यन्दनं यस्य सः तादृशः, तथा रथपदेषु रथाङ्गनामपक्षिषु चक्रवाकेषु, कृपा. सिन्धुः दयासागरः, स्वोदयेन दम्पत्योर्मेलनघटनात् चक्रवाकाणामुपकारीत्यर्थः। तथा दृशां लोकचक्षुषाम् , बन्धुः सुहृत् , स्वोदयेन प्रकाशकत्वादिति भावः, सः सर्वलोकनमस्कृतः भास्वान् सूर्योऽपि, शनि शनैश्चरम्, क्रूरग्रहत्वेन लोकानामनिष्टकारितया अत्यन्तारुचिरचरणत्वेन तथा पङ्गुत्वात् गमनकाले कुरिसतदर्शनत्वेन च पित्रपेक्षया अत्यन्तविसदृशमिति भावः / तथा शमनमपि यमञ्च, दम्पस्योरन्यतरप्राणहरणेन विच्छेदजनकत्वादकरुणत्वेन तथा स्वजनप्राणविनाशनेन नियतरोदनादन्धत्वोत्पाद कतया जननेत्राणां शत्रुभूतत्वेन च पित्रपेक्षया अत्यन्तविसदृशमिति भावः / सुतौ पुत्रौ, लोकान् जगन्ति, वातुंरक्षितुम् विपरीतलक्षणया विनाशयितुञ्च, असूत अजनयत् , इति एवमुक्त्वा इत्यर्थः / दुर्जनः खलः, यत् यदा, उपहसितः उपहासः कृतः, तदा कः खलः दुर्जनः, अस्मान् वैतालिकानित्यर्थः। न हसिष्यति ? न उपहासं करिप्यति ? अपि तु सर्व एव सूर्यवर्णनात् अस्मान् उपहासं करिष्यतीत्यर्थः / परन्तु तत्र न काऽपि अस्माकं क्षतिरिति भावः। कैमुत्येनार्थान्तरापादनादर्थापत्तिरलङ्कारः // 47 // ___ सुन्दर चरणों ( किरणों, अथवा-आचरणोंवाला ) स्वयमुत्पादित अर्थात् उदयके बाद प्रकाशित ( अथवा-सारथि = अरुणकी ) अधिक शोभासे युक्त रथवाला, चक्रवाकके लिए कृपा-समुद्र ( चक्रवाक-दम्पतिको दिनमें अवियुक्त करनेसे उसके लिये कृपासागर ) तथा ( उन्मीलन, अथवा-पदार्थों के ग्रहण करनेकी शक्ति उत्पन्न करनेसे ) नेत्रों के लिए बन्धु. स्वरूप वह सूर्य ( श्रुत्यादि प्रसिद्ध लोकपाल होनसे) शनि और ( दुष्ट एवं शिष्टका क्रमशः निग्रह और अनुग्रह करके धर्माचरणमें लोकको प्रवृत्त करनेसे ) यम-इन दो पुत्रोंको संसारकी रक्षा करने के लिए उत्पन्न किया ( इस प्रकार सज्जनोंसे प्रशंसित भी सूर्यको)'तोत्र किरणोंवाला अथवा-सन्तापकारक, तथा (पुराणादिमें चरणाङ्गुलि आदिका ध्यान