________________ 1274 नैषधमहाकाव्यम् / सुवर्णको प्रवाहित करनेवाला ( अभिनव होनेसे सुवर्णवत् भासमान ) दूसरा कुण्डल दिखलायी दे रहा है // 43 // ____ पौराणिक कथा-कुमारी कुन्तीके गर्भसे सूर्याश द्वारा कर्ण नामक पुत्र उत्पन्न हुआ था, उसको पिता सर्यने सहजात कवचसहित दो अक्षय सुवर्णकुण्डल दिये थे, उसे इन्द्रने ब्राह्मणका वेष धारण कर मांगा तो महादानी कर्णने शस्त्रसे शरीरच्छेदनकर कवचसहित दोनों कण्डलोंको इन्द्र के लिए दे दिया / यह कथा महाभारतके आरण्यक पर्वमें आती है। दहनमविशद्दीप्तिर्याऽस्तङ्गते गतवासर. , प्रशमसमयप्राप्ते पत्यौ विवस्वति रागिणी / अधरभुवनात् सोद्धृत्यैषा हठात्तंरणेः कृता मरपतिपुरप्राप्तिधत्ते सतीव्रतमूर्त्तिताम् // 44 // दहनमिति / रागिणी सायङ्कालिकत्वात् रक्तवर्णा अनुरागिणी च, या दीप्तिः सूर्यस्य प्रभा काचित् स्त्री च, गतवासरे अतीतदिने, प्रशमसमयम् अवसानकालम् , तेजसो जीवनस्य चेति शेषः / सायंकालं मृत्युकालञ्चेति भावः। 'प्राप्ते उपस्थिते सति, पत्यो स्वाभिनि भर्तरि च, विवस्वति सूर्य कस्मिंश्चित् पुरुषेच, अस्तम् अस्ता. द्विम् अदर्शनञ्च, गते प्राप्ते सति, दहनम् , अग्निम् , अविशत् प्रविष्टवती, 'अग्नि वाऽऽदित्यः सायं प्रविशति' इति श्रुतेः, 'मृते भर्तरि ब्रह्मचर्य तदन्वारोहणं वा' इति स्मृतेश्च सहगमनार्थमिति भावः / सा पूर्वोक्ता, एषा दीप्तिः काचित् साध्वी नारी च, हठात् बलात्, आत्मीयपुण्यप्रभावादित्यर्थः / अधरभुवनात् अधोलोकात् , पाता. लात नरकाच्च इत्यर्थः / उद्ध्त्य उत्तोल्य, तरणेः पत्युः अर्कस्य, कस्यचित् पुरुषस्य च, कृता सम्पादिता, अमरपतिपुरप्राप्तिः पूर्वदिगुपस्थितेन्द्रनगरलाभः स्वर्ग: लाभश्च यया सा तादृशी सती तीव्रतया तीक्ष्णतया सह वर्तते इति तादृशी सतीव्रता अतीव तीचणा, सत्याः पतिपरायणतायाः, व्रतं नियमो यत्र सा तादृशी पतिव्रताधर्मश्च इत्यर्थः / मूर्तिः आकारः रूपञ्च यस्याः तस्याः भावः सत्ता तां सती व्रतमूर्तिताम्, धत्ते धारयति / सूर्यतेजसः उत्तरोत्तरं तीचगताभावादिति 'व्याल. ग्राही यथा सप बलादुद्धरते बिलात् / तद्वद्भर्तारमादाय तेनैव सह मोदते // ' इति स्मरणादिति च भावः / अत्र प्रस्तुतदीप्तिविशेषणसाम्यादप्रस्तुतसतीप्रतीतेः समासो. क्तिरलङ्कारः॥४४॥ (सायङ्काल होनेसे ) लाल रगवाली ( पक्षा-अनुरागवाली) जो दीप्ति (सूर्यप्रभा, पक्षा०-कोई साध्वी स्त्री) गत दिन (तेजके, पक्षा०-जीवनके ) अन्त समय आनेपर स्वामी सूर्यके अस्त होने ( पक्षा०-मरने ) पर अग्निमें प्रविष्ट हो गयी थी (जन्मान्तरमें उसी पतिको पाने के लिये पतिव्रता-धर्मका पालन करती हुई अग्निमें जल गयी थी); 1. अत्र 'द्वितीयाश्रितातीत-' इति समासो बोध्यः।