________________ 1270 नैषधमहाकाव्यम् / मध्यभागः यस्याः सा तादृशी सती, कल्माषी चित्रवर्णा, विविधवणेत्यर्थः / गौरादिस्वात् ङीष / अनि जाता / 'दीपजन-' इत्यादिना कर्तरि लुङ् चिण / ध्रवं निश्चितम् , इत्युत्प्रेक्षायाम् / अत्र सरस्याः स्वगुणत्यागेन रविकिरणादिगुणस्वीकारात्त द्गुणालङ्कारः, 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः' इति लक्षणात / तत्रैकैकगुणसङ्क्रान्तिपरिचयात् शोणाद्यनेकगुणसङ्क्रमद्वारा कल्माषस्वीकारोत्प्रेक्षणात्तद्गुणोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः॥ 39 // जिस कारणसे अतिशय अभिनव सूर्य-किरण इसे (इस तडागको ) लाल कर रही है, जिम कारणसे (मकरन्द-पान करने के लिए इस तडागके ऊपर गिरता अर्थात् आता हुआ भ्रमर-समूह इस तड़ागको नीला करना चाहता है, मानी इस कारणसे ) स्वच्छ खिलते हुए कमल-कोरक-समूहोंसे मध्यभागमें स्वच्छ वर्णवाला यह तडाग कर्बुरित हो गया है ( अथवा-....."चाहता है और जिस कारणसे स्वच्छ विकसित होते हुए कमल-कोरकसमूहोंसे यह तडाग मध्यभागमें शुभ्रवर्णवाला हो गया है; मानो इस कारणसे ही यह तडाग कर्बुरित हो गया है ) // 39 // कमलकुशलाधाने भानोरहो ! पुरुषव्रतं यदुपकुरुते नेत्राणि श्रीगृहत्त्वविवक्षुभिः / कविभिरुपमादानादम्भोजतां गमितान्यसा वपि यदतथाभावान्मुश्चत्युलूकविलोचने // 40 // कमलेति / कमलानां पद्मानाम् , प्रकृतानामुपमितानां वा इति भावः / कुश. लाधाने क्षेमविधाने विकासजनने इति भावः / भानोः सूर्यस्य, पुरुषव्रतं पुरुषस्य पुरुषाभिमानिनः, व्रतं नियमः, दृढाध्यवसाय इत्यर्थः, / पौरुषमिति यावत् / अहो ! चित्रम् ! अथवा-अहोपुरुषः पुरुषाभिमानवान् / अहोपुरुष इति मयूरव्यंसकादिषु कैयटः / तस्य व्रतं दृढनियम इत्यर्थः / कुतः ? यत् यस्मात् असौ भानुः, श्रीगृ. हवं शोभाश्रयत्वम् , नेत्राणां सौन्दर्यवर्णने उपमानत्वमित्यर्थः / विवनुभिः बक्तुमि. च्छुभिः / 'द्वितीया-' इति योगविभागात् द्वितीयासमासः / कविभिः काव्यकत्तभिः वाल्मीकादिभिः, उपमादानात् नेत्राणां सादृश्यत्वेन वर्णनामात्रात् , अम्भोजतां गमितानि कमलत्वेन रूपितानि, नेत्राणि नयनानि अपि, सौन्दर्यातिशय्यख्यापनाय कमलतुल्यतया वर्णितानि जननयनान्यपीत्यर्थः, उपकुरुते उन्मीलनेन उपकृत्तानि करोति, विकासयतीत्यर्थः / आलोकसहकारादेव लोकलोचनानां विषयेषु प्रवृत्तेरिति भावः / सूर्योदये सर्व एव प्राणिनो निद्रां परिहृत्य नयनोन्मीलनकरणात् भानोः उपमितकमलानां कुशलोधायकत्वम् , प्रकृतानाञ्च विकाससम्पादनेन कुशलाधायकस्वमिति बोद्धव्यम् / यत् अपि यस्माच, अतथाभावात् औपमानिकाम्भोजत्वस्यापि १.'-मानादथ-' इति पाठान्तरम् /