________________ 1266 नैषधमहाकाव्यम् / हिमतुल्य पाण्डुवर्ण) चन्द्रमामें प्रविष्ट होते रहनेपर अर्थात् चकवाके समान चन्द्रमाको भी पत्नीविरह होनेपर तथा ताप (विरहजन्य सन्ताप, पक्षा०-उष्णता ) के अपने ( चक्रवाकके ) चितसे सूर्यकान्तमणिमे गमन करने का इच्छुक होनेपर अर्थात् सूर्य-किरण-सतर्गसे सूर्यकान्त. मणिके प्रज्वलित होनेसे चक्रवाकके चित्तसे उसके रात्रि-विरहजन्य सन्तापको सूर्यकान्तमणिमें जानेकी इच्छा करते रहनेपर विरहसे अतिशय चञ्चल जिह्वावाले चक्रवाक अत्यन्त व्याकुल सहचरी (चकई ) को नाम लेकर बारबार बुला रहे हैं अर्थात् रात्रिको पत्नीविरहसे व्याकुलचित्त चकवा पतिवियोगसे हा व्याकुलित चकईको 'वह जीवित है या नहीं ?' ऐसी आशङ्काकर बारबार उसका नाम लेकर बुला रहे हैं // 35 // स्वमुकुलमयैर्ने त्रैरन्धम्भविष्णुतया जनः किमु कुमुदिनीं दुर्व्याचष्टेरवेरनवेक्षिकाम् ? | लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये' शृणुत शृणुतासूर्यम्पश्या न सा किल भाविनी ? / / 36 / / . स्वेति / जनः लोकः, स्वमुकुलमयैः निजकोरकरूपैः, निमीलितरित्यर्थः। नेत्रैः नयनः, अन्धभविष्णुतया अन्धीभूततया, अनन्धाया अपि अन्धाया भूततया हेतुनेत्यर्थः / अविचारादिति भावः / 'कर्तरि भुवः खिष्णुच' इति अभूततद्भावे कर्तरि खिष्णुचप्रत्ययः, 'अरुद्विषत्-' इत्यादिना मुमागमः। रवेः सूर्यस्य, अनवेक्षिकाम् अनवेक्षणीम् , सूर्यमपश्यन्तीमित्यर्थः / ण्वुल / 'प्रत्ययस्थात्-' इति ण्वुलि कात्पूर्व स्येकारः / कुमुदिनी कैरविणीम् , राजपत्नीमिति भावः। किमु किमिति, दुर्व्याचष्टे? दुर्वदति ? कुमुदिनी जगत्पावनम् अवश्यदर्शनीयं सूर्यमपि न पश्यति, अहो ! मह दनुचितमिदमाचरणम् अस्याः इत्यादिरूपेण वृथा अपवदतीत्यर्थः / ननु 'लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गोहुताशनः / हिरण्यं सर्पिरादित्य आपो राजा तथाs. ष्टमः // एतानि सततं पश्यन्नमस्येदर्चयेत्तु यः। प्रदक्षिणञ्च कुर्वीत तस्य चायन हीयते // ' इति शास्त्रात् सूर्यावेक्षणस्य विहितत्वेन तदनाचरन्ती कथं न दुर्वाच्या ? इत्याशंसायामाह-कविप्रतिभासु कवीनां विदुषाम् , प्रतिभासु प्रज्ञासु, प्रतिभोद्भासितकाव्येषु इत्यर्थः / ये कुमुदिनीत्याख्यया प्रसिद्धाः, राज्ञः चन्द्रस्य नृपस्य च / 'राजा प्रभौ नृपे चन्द्रे' इति विश्वः / दाराः पत्नी राजदाराः, लिखितपठिताः कवि. भिर्लिपीकृताः अध्येतृभिश्च अधीताः। लिखिताश्च ते पठिताश्व इति विशेषणसमासः। कवयो यां राजपत्नी वदन्ति, तच्छिष्याश्च तथैव जानन्तीत्यर्थः। सा राजदारत्वेन वर्णिता कुमुदिनी, सूर्य न पश्यतीति असूर्यम्पश्या सूर्यादर्शिनी। 'असूर्यललाटयो. ईशितपोः' इति खश्प्रत्ययः / 'पाघ्रा-' इत्यादिना हशेः पश्यादेशः। असूर्य इति चासमर्थसमासोऽयं, हशिना नञः सम्बन्धस्वात् / 'यदा तु सूर्याभावदर्शनमात्रं 1. 'येति पाठः समीचीनः' इति 'प्रकाश' कारः /