________________ ऊनविंशः सर्गः। 1259 मिहिरेति / इयं किञ्चित् विकसिता, सरोजिनी पद्मिनी, दिनोदये अस्मिन् प्रातः. काले, प्राक दलान्तरविकाशात् पूर्वम् , विकसितेन प्रस्फुटितेन, संहतीभावात् पृथग्भूतेनेत्यर्थः / एकेन एकमात्रेण, दलेन पत्रेण हेतुना, मिहिरकिरणः सूर्यरश्मिरेव, आ सम्यक भुज्यते इति आभोगः भोज्यं तम् , भोक्तुं खादितुम् , प्रवृत्ततया कृतारम्भतया हेतुना, पुरः पूर्वम् , भोजनात् प्रागित्यर्थः / आपोशानस्य आपोशानं नाम भोजनादौ कत्र्तव्यम् 'अमृतोपस्तरणमसि स्वाहा' इति समन्त्रकजलपानेन अन्नस्य अमृतास्तरणरूपं कार्य, समन्त्रकाचमनमित्यर्थः, तस्य / पृषोदरादित्वात् साधुः। ग्रहार्थम् आचरणार्थ, कलितः कृतः, चुलुकः गण्डूषकरणार्थ विश्लिष्टकनिष्ठाङ्गुलिका प्रसृत्यपराख्यः निकुब्जपाणिप्तलविशेषः यस्याः सा ताहशी, किमु ? जाता किम् ? इति उत्प्रेक्षा, इति एवम् , साक्षात्कः स्वस्या एव द्रष्टः, जनस्य लोकस्य, मतिं बुद्धिम् , जनयति उत्पादयति / आपाशानकार्यकारी हस्तस्य कनिष्ठाङ्गुलिं प्रसार्य अन्याङ्गुलीनां सङ्कोचं विधाय च जलं पिबति इति सम्प्रदायः। प्राग विकसितैकद. लस्य विश्लिष्टकनिष्ठाङ्गुलीतुल्यतया पद्मस्य च निकुब्जपाणितलतुल्यतया कलितचुलुकत्वं बोद्धव्यम् // 28 // सरोजिनी प्रातःकाल सर्वप्रथम खिले (खिलकर फैले ) हुए एक पल्लव ( पंखुड़ी) से दर्शकको ऐसी बुद्धि उत्पन्न करती है अर्थात् उसे देखकर देखनेवाला यह समझता है कि'सूर्य-किरण-मण्डलका उपभोग ( पक्षा०-भोजन ) करनेके लिए प्रवृत्त होनेसे यह ( सरोजिनी) पहले ( भोजन करनेसे पूर्व ) अपोशानके ग्रहण ( 'अमृतोपस्तरणमसि स्वाहा' इस मन्त्रको पढ़कर आचमन ) करने के लिए उद्यत है क्या ? / [ जिस प्रकार भोजनके पूर्व 'कनिष्ठा अङ्गुलिको फैलाकर तथा शेष अङ्गुलियोंकी सङ्कुचितकर चुल्लूमें पानी लेकर अन्नको अमृतमय बनाने के लिए 'अमृतोपस्तरणमसि स्वाहा' मन्त्रसे आचमन किया जाता है, उसी प्रकार प्रातःकाल सर्वप्रथम खिलनेसे फैले हुए एक पत्रवाली सरोजिनी सूर्यकिरणका भोग (पक्षा०-भोजन ) कर रही है। ऐसा दर्शकों के मनमें विचार उत्पन्न हो जाता है ] // 28 // तटतरुखगश्रेणीसाराविणैरिव साम्प्रतं सरसि विगलन्निद्रामुद्राऽजनिष्ट सरोजिनी / अधरसुधया मध्ये मध्ये वधूमुखलब्धया धयति मधुपः स्वादुङ्कारं मधूनि सरोरुहाम् // 29 // तटेति / साम्प्रतं सम्प्रति, सरसि सरोवरे, स्थितेति शेषः / सरोजिनी पद्मिनी, तरतरुषु तीरस्थितवृक्षसमूहेषु, याः खगश्रेण्याप क्षिसमूहाः, तासां सांराविणैः सम्यग रावैरिव, उच्चकलकलेरिवेत्यर्थः / इत्युत्प्रेक्षा / 'अभिविधौ भावे इनुण' इति स्वार्थे इनुः एप्रत्ययः / विगलनिद्रामुद्रा विगलन्ती अपगच्छन्ती, निद्रा स्वप्न इव, मुद्रा निमी. लनम् , सङ्कोच इत्यर्थः / यस्याः सा ताहशी, अजनिष्ट जाता। जनेः कर्तरि लुङ। 76 नै० उ०