________________ 1254 नैषधमहाकाव्यम् / अनन्तरमेव, सत्वरमेवेत्यर्थः। दिनोदयं दिवसप्रादुर्भावम् , अवश्यं करिष्यतीति अवश्यङ्कारी दिनं निश्चितमेव करिष्यन् इत्यर्थः, 'आवश्यकाधमर्ययोः' इत्यावश्यकार्थे णिनिः / मयूरव्यंसकादित्वात् समासः / आवश्य कार्यस्वादिह भविष्यति इत्यर्थः / लभ्यते, अतः 'अकेनोभविष्यदाधमर्ययोः' इतीन्युक्तषष्ठीप्रतिषेधः सम्भ वति, अत एव भविष्यदर्थाभावे अत्र प्रत्युदाहरणं काशिकायाम् 'अवश्यङ्करी कटस्य' इति / हरिः इन्द्रः, पतिः प्रभुः यस्याः तादृश्याः, हरितः दिशः, प्राचीदिगङ्गनाया इत्यर्थः / पूर्णभ्रणः सम्पूर्णगर्भः, दशममासीयगर्भ इत्यर्थः / 'गर्भो भ्रूण इमो समी' इत्यमरः / स इव आचरितः इति तादृशः / 'आचारक्यङन्तात् कर्तरि क्तः। द्युति. पतिः सूर्यः, कियतः क्षणान् कति कालान् , अत्यन्तसंयोगे द्वितीया। आसिता ? स्थाता ? स्वोदयं स्थगयित्वा अपेक्षिष्यते ? इत्यर्थः / न क्षणमपीति भावः। शीघ्रमेव सूर्यस्य उदयो भविष्यति, अतः सूर्योदयात् प्राक सन्ध्योपासनार्थ सस्वरमुत्तिष्ठ इति तात्पर्यम् // 22 // हे तपोनिष्ठ ( पाठा०-तपसे निर्मल, नल ) ! शीघ्र कान्तासे पृथक् होवो अर्थात दमयन्ती के साथ शयन करना छोड़ो और सन्ध्योपासन करो रात्रि के बाद होनेवाली सन्ध्या अर्थात् प्रातःसन्ध्या ( सन्ध्योपासनके लिए ) तुम्हे क्यों नहीं जल्दी करा रही है अर्थात् प्रातःसन्ध्यो. पासन का समय देखकर तुम जल्दी क्यों नहीं उठ रहे हो ? दिनोदयको शीघ्र करनेवाला, अतएव पूर्व दिशाके पूर्ण गर्भस्थित सा सूर्य कितने क्षणतक ठहरेगा अर्थात् कुछ कुछ क्षणों में ही सूर्योदय होने वाला है / यहाँ 'लघुयुताकान्तः पदमें अदादिगणस्थ 'यु मिश्रणामिश्रणयोः' धातुसे भूतमें 'क्त' प्रत्ययसे सिद्ध होनेवाले 'युत' शब्दको 'पृथक् होने' अर्थमें प्रयुक्तकर महाकवि श्रीहर्षने सन्ध्योपासनके बाद पुनः कान्तासे संयुक्त होनेका सङ्केत किया है, केवल पृथक् अर्थको कहनेवाले 'त्यक्त' आदि शब्दका प्रयोग अमङ्गलवाचक होने से नहीं किया है ] // 22 // मुषितमनश्चित्रं भैमि ! त्वयाऽद्य कलागृहैनिषधवसुधानाथस्यापि श्लथश्लथता विधौ / अजगणदयं सन्ध्यां वन्ध्यां विधाय न दूषणं नमसितुमता यन्नाम स्यान्न सम्प्रति पूषणम् / / 23 / / मुषितेति / भैमि ! हे दमयन्ति ! अद्य अस्मिन् दिवसे, कलागृहैः कलानां 'गृहाः पुंसि च भूम्न्येव' इत्यमरः / त्वया भवत्या, मुषितमनसः अपहृतचित्तस्य, निषधवसुधानाथस्य नलस्यापि, परमधार्मिकस्यापीति भावः। विधौ श्रतिविहित. सन्ध्योपासनादिनित्यकर्मानुष्ठाने, श्लथश्लथता अतिशिथिलता। कर्मधारयवद्भावे पुंवद्भावात् सुपो लुक् / चित्रम्, आश्चर्यम्, यत् यस्मात् , अयं नला, सम्प्रति अधुना,