________________ 1251 ऊनविंशः सर्गः। अरुणेति / या प्रातःसन्ध्या, अरुगस्य सूर्यसारथेः अनूरोः, किरणे रश्मी एव, वह्नौ अनले, आरक्तवर्णत्वसाम्यादिति भावः / उडूनि नक्षत्राणि एव, लाजान् भृष्टधान्यकृतान् , अक्षतान् , जुहोति आहुतिदानेनेव अदर्शनं नयतीत्यर्थः। आहुतिं ददाति च / प्रभातालोकेन नक्षत्राणां क्षीणत्वशुभ्रत्वादिरूपेण प्रतीयमानत्वात् लाजसाम्यत्वं बोध्यमिति / ताम् उक्तरूपाम् , एतां परिदृश्यमानाम , सन्ध्यां प्रातः. सन्ध्यारूपां वधूम , दिवः आकाशस्य, मणिः रत्नम् , सूर्यः इति यावत् / वरः इति भावः / परिणयति परि सर्वतोभावेन, नयति प्रापयति, उपस्थापयतीत्यर्थः / उपयच्छते च, इति अवैमि जानामि / वाक्यार्थः कर्म / इत्युत्प्रेक्षे इत्यर्थः। कथमवैषीत्यपेक्षायामाह-यतः यस्मात् हेतोः, इयं सन्ध्यावधूरिव, सोऽपि स वरः सूर्योऽपि, पुरा पूर्वम्, आगामिनि काले च / 'स्यात् प्रबन्धे .चिरातीते निकटागामिके पुरा' इत्यमरः / तत्र सन्ध्या पूर्व सूर्यश्च आगामिनि काले इत्याशयः / अग्निभ्रान्तिम् भारुण्यात् आत्मनि अग्निविभ्रमं लाजहोमानन्तरम् अग्निप्रदक्षिणरूपं भ्रमणञ्च, करोति चकार करिष्यति च / 'यावत्पुरानिपातयोर्लट्' / एकत्र-सन्ध्यायाः सूर्यस्य च उभयोरेव अग्निवर्णत्वात् उभावेव आत्मनि तभ्रमं कुरुतः अन्यत्र च-अग्रे वधूः. तत्पृष्ठतो वरश्च अग्निप्रदक्षिणं करोतीति परिणयविधौ दृश्यते इत्याशयः। एवञ्चक एव को वा जनः, सकौतुकं सकौतूहलं यथा तथा, ससूत्रश्च / 'कौतुकं विषयाभोगे हस्त. सूत्रे कुतूहले' इति यादवः / तस्य परिणेतुः द्युमणेः, करम् अंशुं हस्तञ्च / 'बलिहस्तां. शवः कराः' इत्यमरः / ईक्षितुं द्रष्टुम्, न एव उत्कः ? नैव उत्सुकः ? एकत्र-अरु. णोदयकालिकहोमादिनित्यकर्मानुष्ठानार्थम् , अन्यत्र-चित्तविनोदनार्थम्चेति भावः / भवतीति शेषः / अपि तु सर्वऽपि उत्सुका एव भवन्तीत्यर्थः / अरुणोदयः जातः, तारकाश्व अरुणप्रभायां लीनाः सत्यः न दृश्यन्ते, सन्ध्यासमयश्च समागतः, इदानीं सूर्य उदेष्यति इति निष्कर्षः // 20 // जो (प्रातःसन्ध्यारूपिणी वधू ). अरुणके किरणरूपी ( पक्षा०-अरुणवर्ण ज्वालाओंवाली ) अग्निमें तारारूपी लाजाओं (धानकी खीलों ) को हवन करती (पक्षा०-पहुंचाकर जलाती-नष्ट करती ) है, ऐसी उस प्रातःसन्ध्या (रूपिणी वधू ) को आकाशमणि ( सूर्य, पक्षा०-सूर्यरूपी श्रेष्ठ वर ) अभ्युन्नत (पक्षा०-विवाहित ) कर रहा है, क्योंकि इस (प्रातःसन्ध्यारूपिणी वधू ) के समान वह सूर्य भी पहले (पक्षा०-आगामी समयमें ) अग्नकी भ्रान्ति ( भ्रम, पक्षा०-प्रदक्षिणा) को करेगा तथा किया तथा उस (सूर्य) के किरणको (प्रातःकालंका सूर्याय॑ देते समय ) ऊपर जल किया हुआ कौन व्यक्ति कौतूहल. पूर्वक नहीं देखेगा ? (पक्षा०-उस ( सूर्यरूपी वर ) के विवाहके कङ्कणसूत्र युक्त हाथको कौन व्यक्ति उत्कण्ठित होकर नहीं देखेगा ?) / [ जिस प्रकार वधू अरुणवर्ण ज्वालाओंवाली अग्निमें लाजाहुती करती है, उससे श्रेष्ठ वर विवाह करता है, वह वधू आगे-आगे तथा वर पीछे-पीछे अग्निकी चारों ओर प्रदक्षिणा करते हुए भ्रमण करते हैं और कौतूहलपूर्वक सब