________________ 1250 नैषधमहाकाव्यम् / इति पाठे / 'अर्हः प्रशंसायाम्' इति शतरि, अर्हतो भाव इति ब्राह्मणादित्वात् ष्यञ्प्रत्यये 'अर्हतो नुम् च' इति नुमागमः, 'प्यञः पित्करणादीकारो बहुलम्' इति वामनः / 'यस्य हलः' इति यकारलोपः / एतेन औचिती व्याख्याता। नुमभावस्तु विशेषः / निशः रात्रेरपि, न औचिती न औचित्यम् , किमु ? अपि तु उचितमेव, प्रागेवापगमनमिति भावः / अर्हत्वमेवौचित्यमेव चाह,-यत् यस्मात् , इह अस्मिन् समये, प्रभातकाले इत्यर्थः। गणेयरुचीगणः परिगणनीयकान्तिचयः, अतिशयेन परिक्षीणकिरणः इत्यर्थः / 'गणेरेयः' इत्यौणादिकण्यप्रत्ययः। पति चन्द्रः, ताभ्याम् उहुपरिषन्निशाभ्यां, न दृष्टः न अवलोकितः / 'धन्यास्तात ! न पश्यन्ति पतिभङ्गं कुलक्षयम्' इति स्मृतेः स्त्रीणां परयुः क्षीणावस्थाया ईक्षणस्य अधन्यत्वसूचकत्वादिति भावः / किञ्च, अश्मनः इयम् आश्मनी, 'तस्येदम्' इत्यण , सम्बन्धे अणि विका. राभावात् 'अश्मनो विकारे टिलोपो वक्तव्यः' इति टिलोपाभावः / स्फुरन्ती शशाङ्क: तया कृष्णवर्णत्वेन प्रकाशमाना, मलिना कृष्णवर्ण, आश्मनी पाषाणमयी, पाषाण. वत् कठिनेत्यर्थः / छविः कान्तिः यस्य तत् स्फुरन्मिलनाश्मनच्छवि कृष्णवर्णप्रस्तर. सदृशम् , उडुपतेः ताराकान्तस्य, वक्षः हृदयम् , अश्मनो विकारः आश्मं पाषाणमयम् , प्रस्तरवत् दुर्भेद्यमिति भावः / विकारार्थेऽणप्रत्ययः। 'अश्मनो विकारे टिलोपो वक्तव्यः' इति टिलोपः / स्फुट सत्यम् / कुतः ? यत् यस्मात् , अनयोः स्व. कान्तयोः उडुपरिषन्निशयोः, विच्छेदे वियोगेऽपि, प्रागेवापगमनादिति भावः / द्रुतं शीघ्रम् , न मृतं न विदीर्णं जातम् बत इति खेदे / अनयोवियोगेन उडुपतेः वक्षो. विदारणेन मरणस्यैवौचित्यादिति भावः // 19 // तारासमूहका पूज्यत्व ( पाठा-औचित्य ) नहीं है क्या ? तथा रात्रिका औचित्य नहीं है क्या ? कि उन दोनों ( तारासमूह तथा रात्रि ) ने गिन ने योग्य अर्थात् अत्यल्प किरणसमूहवाले ( क्षीणकिरण ) पति ( चन्द्रमा ) को नहीं देखा ( पतिरूप चन्द्र के विनाश देखने के पहले ही नष्ट होनेवाले तारासमूह तथा रात्रिका नष्ट हो जाना अत्यन्त उचित है। किन्तु ) रफुरित होते हुए मलिन ( कृष्णवर्ण ) पत्थर के समान कान्तिवाला तारापति ( चन्द्रमा ) का वक्षःस्थल अवश्य ही पत्थरका ( या-मानो पत्थरसे ) बना है, क्योंकि ( अथवा-जो = हृदय ) इन दोनों ( तारासमूह तथा रात्रि ) के वियोग होने पर भी शीव नष्ट नहीं हुआ (पाठा०-पिघल गया ) / [ अत एव चन्द्रमाके ऐसा कार्य अनुचित हुआ। तारागण नष्ट हो गये, रात्रि बीत गयी तथा चन्द्र भी क्षीणप्रभ हो गया।] // 19 // अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या परिणयति तां सन्ध्यामेतामवैमि मणिदिवः / इयमिव स एवाग्निभ्रान्ति करोति पुरा यतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ? / / 20 / /