________________ 752 नैषधमहाकाव्यम् / यदिति / भानुमान् भास्वान् सूर्यः, कस्याम् अपि ककुभि कुत्रापि दिशि, स्थेमानं स्थिरत्वं, स्थिरशब्दस्य दृढादिपाठात् 'वर्णदृढादिभ्यः ष्यञ्च' इति चकारादिमनिच / 'प्रियस्थिर-' इत्यादिना स्थादेशः, न आलम्बते इति यत् , तथा दावाग्निना घनं निबिडं,काननमेव एकशरणम् एकमात्ररक्षितारं, प्राप्तेन 'द्वितीया श्रित-' इत्या. दिना समासः, जातम् इति यत् , जातमिति भावे क्तः, एषा एतदुभयमपीत्यर्थः, विधेयप्राधान्यात् स्त्रीलिङ्गता, एतस्य राज्ञः, भुजतेजसा भुजप्रतापेन, विजितयोः तयोर्भानुदावान्योः, औचिती तावत् औचित्यमेव, भीतस्य व्याकुलत्वादेकनानव. स्थानं वनाश्रयणञ्च युक्तमिति भावः, किन्तु तं वाडवं वडवाग्नि,धिक, येन वाडवेन, पुनः भिया भयेन, द्विषि स्वस्य सहजद्वेषिणि, अम्भसि जले, प्रविष्टम् भावे क्तः स्व. शत्रुसंश्रयणात् अन्यत्र पलायनमपि वरमिति भावः / अत्र स्वाभाविकस्य सूर्यादिपर्यटनादेः एतद्भीहेतुकत्वोत्प्रेक्षणात् उत्प्रेक्षा व्यञ्जकाप्रयोगात् गम्या // 81 // जो सूर्य किसी भी दशामें स्थिर नहीं रहते और जो दावाग्निने सघन वनरूपी एक ( मुख्यतम ) रक्षकको प्राप्त किया है, वह (वैसा करना ) इस राजाके बाहु-प्रतापसे जीते गये उन दोनों ( सूर्य तथा दावाग्नि के लिये कथञ्चित् उचित है; किन्तु उस वडवाग्निको धिक्कार है जो इसके भयसे शत्रुभूत पानी ( समुद्र के जल ) में फिर घुस गया है। [इस राजाके बाहुप्रतापसे जीते गये सूर्य का किसी दिशामें स्थिर नहीं रहना तथा दावाग्निका सघन वनमें छिपकर रहना वो उचित है, किन्तु वडवाग्निका इसके भयसे जो अपने शत्रु (जलके द्वारा अग्निके बुझ जानेसे जलको अग्निका शत्रु मानना उचित ही है ) पानी में आत्मरक्षार्थ फिर घुस गया अतएव ( एक शत्रुसे डरकर आत्मरक्षार्थ दूसरे शत्रुके शरणमें जानेसे ) उस नीच वड़वाग्नि को धिक्कार है / अपने शत्रु की शरणमें जानेकी अपेक्षा भाग जाना या किसी वनमें छिप जाना श्रेष्ठ है ] // 81 // अमुष्योभिः प्रमृमरचमूसिन्धुरभवै'. रवैमि प्रारब्धे वमथुभिरवश्यायसमये / न कम्पन्तामन्तः प्रतिभटनृपाः ? म्लायतु न तद् वधूवक्त्राम्भोजं ? भवतु न स तेषां कुदिवसः ? // 82 / / अमुष्येति / अमुष्य उर्वीभत्तुः प्रसृमराः प्रसारिणः, 'सृघस्यदः क्मरच्' तेभ्यः चमूसिन्धुरेभ्यः सेनागजेभ्यः, भवैः वमथुभिः करशीकरः, 'वमथुः करशीकरः' इत्यमरः, अवश्यायसमये नीहारकाले प्रारब्धे सति, अवैमि जानामि, मन्ये इत्यर्थः, वक्ष्यमाणवाक्यार्थः कर्म, प्रतिभटनृपाः शत्रुभूपाः अन्तः अन्तःकरणे, न कम्पन्ताम् ? न कम्पेरन् ? अपि तु कम्पन्तामेवेत्यर्थः, इति काकुः, एवमुत्तरत्र / तद्वधूनां शत्रुभूपश्रीणां, वक्त्रमेवाम्भोजं पद्मं, न म्लायतु ? ग्लायतु एव इत्यर्थः / सेनागजवमथु 1. 'भरः' इति पा०।