________________ द्वादशः सर्गः। अनेनेति / सर्वार्थिनां सर्वयाचकानां, कृतार्थताकृता पूर्णकामत्वकारिणा, अनेन राज्ञा, हृतार्थिनौ स्वयं सर्वार्थदानादर्थिहरणेनार्थिरहितौ कृतौ इत्यर्थः, कामानां दात्री गौः कामगवी कामधेनुः, 'गोरतद्धितलुकि' इति समासान्तष्टच, सा च सुरद्रुमः कल्पवृक्षश्च तौ, मिथोऽन्योऽन्यं प्रति, पयःसेचनं क्षीरसेकं, पल्लवाशनं पल्लवभोजनञ्च, प्रदाय दत्त्वा, दानव्यसनं दानासक्तिं, समाप्नुतः समापयतः। याचकान्तराभावात् अन्योऽन्यं प्रति सम्प्रदानीयपयःपल्लवमात्रदानेन कथञ्चिदानकण्डूत्यपनोदनं कुरुत इति तात्पर्यम् // 79 // सब याचकोंको ( अभीष्ट दान देकर ) कृतार्थ ( कृतकृत्य ) करनेवाले इस ( राजा ) से आहरण कर लिये गये हैं याचक जिनके ऐसे कामधेनु तथा कल्पवृक्ष ( अन्य याचकोंके अपने पास याचना करनेके लिए नहीं जानेके कारण क्रमशः ) परस्पर में दुग्धका सिञ्चन तथा पल्लवका भोजन देकर दानके व्यसनको पूरा करते हैं। [ कामधेनु तथा कल्पवृक्षको नित्य दान देनेका व्यसन है, किन्तु इस राजा द्वारा सब याचकोंकी याचना पूरी कर देनेसे उन ( कामधेनु तथा कल्पवृक्ष ) के पास कोई भी याचक नहीं जाता, अतएव कामधेनु अपने दूधसे कल्पवृक्षको सींचकर तथा कल्पवृक्ष अपने पल्लवोंको कामधेनुके भोजनार्थ देकर परस्पर में ही दानके व्यसनको पूरा करते हैं ] / / 79 // नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान् पततः पदद्वये / तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना / / 80 // नृप इति / अयं नृपः निजे पदद्वये पततः प्रणमतो, यान् नृपान् कराभ्यां हस्ता. भ्याम् ,उदतोलयत् उत्तोलयामास, कृपयेति शेषः, तदीयासु तेषां राज्ञां सम्बन्धिनीषु, चूडासु किरोटेषु, ये कुरुविन्दाः पद्मरागाः, 'कुरुविन्दस्तु मुस्तायां कुल्माषबीहिभेदयोः / हिङ्गुले पद्मरागे च' इति विश्वः, तेषां रश्मिभिः एतस्य राज्ञः, करपादयोः करयोः पादयोश्च, रञ्जना प्रणामेन चरणयोस्तेषामुत्तोलनेन च करयोः रक्तिमत्वं बोध्यम् , इयं स्फुटा,लक्ष्यते इति शेषः / स्वाभाविककरपादरागे राजकिरीटमाणिक्यमयूखरञ्जनत्वोत्प्रेक्षणेनास्यानेकराजविजयित्वं व्यज्यते इत्यलङ्कारेण वस्तुध्वनिः // 8 // ___ इस राजाने अपने दोनों चरणोंपर (प्रणाम करनेके समयमें ) गिरते हुए राजाओं ( के मस्तकों ) को जो दोनों हाथोंसे उठाया, उन (विनम्र राजाओं ) के मुकुटके मणिक्योंकी किरणोंसे ही इस ( राजा ) के हाथ-पैर में यह लालिमा स्पष्ट ( दीख रही ) है // 80 // यत्कस्यामपि भानुमान ककुभि स्थेमानमालम्बते जातं यद्घनकाननैकशरणप्राप्तेन दावाग्निना / एषैतद्भूजतेजसा विजितयोस्तावत्तयोरौचिती धिक तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः // 81 //