________________ ऊनविंशः सर्गः। 1237 पातुकैः रवेः करैः धूमलच्छविः कृष्णलोहितकान्तिः इव / 'धूम्रधूमलौ कृष्णलोहितो' इत्यमरः / विराजति शोभते / 'अत्र काल्या भृङ्गया रविकरलौहित्यायुस्कृष्टगुणग्रहणे तद्गुणालङ्कारः, तदुस्थापिता धूमलत्वोत्प्रेति सङ्करः // 5 // ___ अन्धकार-समूह लाक्षाशीमा ( महावरकी लालिमा) का अतिक्रमण करनेवाले अर्थात् महावरसे भी अधिक लाल सूर्य-किरणोंसे अनेक श्वेत पलोंवाले इंसोंके (कीचड़से मृणालदण्डको खोदकर निकालनेके लिए ) चञ्चल चन्चुपुटसे स्पष्टतः छुए जाते हुए पक-समूहके समान शोभित होता है तथा अपनेको अधिक काली माननेवाली भ्रमरी अरुणतम सूर्यकिरणोंसे धूमिल ( लालिमायुक्त कृष्णवर्ण) कान्तिके समान शोभती है। [ अत्यन्त अरुण वर्णवाली सूर्य-किरणें पङ्क-समूहमें प्रविष्ट होती हुई ऐसी मालूम पड़ रही है, कि-श्वेत पङ्खोंवाले तथा लाल चोंचवाले अनेक हंसोंके चोंच मृणालदण्ड (विस ) के लिए अधिक पङ्कको खोदते हो / तथा वैसे अरुणतम सूर्य-किरणों के स्पर्शसे अत्यधिक काली भ्रमरी भी धूमिल वर्णवाली हो रही है ] // 5 // रजनिवमथुप्रालेयाम्भःकणक्रमसम्भृतैः कुशकिशलयस्याच्छरग्रेशयैरुदविन्दुभिः / सुषिरकुशलेनायःसूचीशिखाङ्कुरसङ्करं किमपि गमितान्यन्तमुक्ताफलान्यनुमेनिरे // 6 // ग्जनीति / रजनेः रात्रे, हस्तिनीरूपाया इति भावः / वमथवः करशीकराः, शुण्डाग्रविक्षिप्तजलकणस्वरूपा इत्यर्थः / 'वमथुः करशीकरः' इत्यमरः / ये प्राले. याम्भसः हिमजलस्य, कणाः बिन्दवः, तैः क्रमेण क्रमशः, किञ्चित् किचित् कृस्वेत्यर्थः / सम्भृतैः सश्चितैः, किञ्चित् किश्चत् कृत्वा सञ्चयात् स्थूलीभूतैरिति भावः / कुशकिशलयस्य सूचीवत् सूक्ष्माग्रनवीनदर्भपत्राणामित्यर्थः / जातावेकवचनम् / अग्रे शेरते इति अग्रेशयाः तैः अग्रस्थैः। 'अधिकरणे शेतेः' इत्यच् / अच्छैः निर्मलैः, उद. बिन्दुभिः जलकणैः / कतभिः / सुषिरे मुक्तादिषु छिद्रविधाने, कुशलेन निपुणेन, शिल्पिनेति शेषः / किमपि किञ्चित् , अन्तः मध्ये, अयसः लौहस्य, सूचीनां व्यधनीनाम् , सीवनसाधन सूचमाग्रशलाकाविशेषाणामित्यर्थः शिखाङ्कुरः शिखा अग्रभागः, स एव सूचमत्वादकुरः, तैः सङ्करं सङ्गमम् , गमितानि प्रापितानि, मुक्ताफलानि मौक्तिकानि, अर्द्ध विद्धानि मुक्ताफलानीत्यर्थः / अनुमेनिरे हीनतया बुबुधिरे, हीनीकृतानीत्यर्थः / सूर्यकिरणसम्पर्केण अन्तरौज्वल्यसाधात् मुक्ताफलानि तिरस्कृतानीति भावः / इति सादृश्ये लक्षणा / अत्र दर्भाग्रोदबिन्दूनां वेधसूच्यग्रलग्नमुक्ता 1. 'अत्र काल्या भृङ्गया रविकरैलौहित्याजीविकारात्तद्गतेन तदुस्थापिता......' इति 'जीवातुः' इति म० म० शिवदत्तशर्माणः / 2. -न्यवभेनिरे' इतिपाठान्तारम् /