________________ नैषधमहाकाव्यम्। युगपदेव प्रसरणशीला इति भावः / 'अपरस्पराः क्रियासातत्ये' इति निपातनात् साधुः / तरणेः अर्कस्य, किरणाः मयूखाः, क्रमात् क्रमशः, द्याम् आकाशम् , अञ्चन्ति गच्छन्ति, व्याप्नुवन्तीत्यर्थः / दरिद्राणप्राणः क्षीणबलः / दरिद्रातः कर्तरि ल्युट् / 'बलान्तारुतोः प्राणः' इति यादवः / अयं परिदृश्यमानः, तमीदयितः निशा. पतिरपि, राध्याः निशायाः / 'कृदिकारात्-' इति वा ङीषु / तमांसि अन्धकाराः तैः सह युध्वनां युद्धं कुर्वतीनाम् / 'सहे च' इति क्वनिप् / 'वनो न हशः-' इति वक्तव्यात 'वनो र च' इति ङीप् प्रत्ययो रश्च नास्ति / विषां भासाम , स्वप्रभ्राणाः मित्यर्थः। परिश्रान्ति क्लान्तिम , कथयति ख्यापयति / प्रभातः सञ्जातः, अतः शयनं परित्यजेति भावः / समुच्चयोऽलङ्कारः॥४॥ ___ अतिशय लघु (ध्रुव, अरुन्धती आदि ) अथवा-(पहले अधिक प्रकाशमान किन्तु समय ) अतिक्षीण ( स्वाती आर्द्रा आदि ) ताराएँ रात्रिके समान दृष्टिगोचर नहीं होती हैं। परस्पर अहमहमिकासे निरन्तर प्रवृत्त सूर्यकिरणें आकाशमें व्याप्त हो रही हैं / क्षीणप्राण अर्थात् कान्तिहीन यह चन्द्रमा मी रात्रिके अन्धकारसे युद्ध करनेवाली अपनी कान्ति (किरणों) की परिश्रान्ति ( अतिशय ग्लानि, पक्षा०-अतिशय थकावट ) को कह रहा है अर्थात् अपनी प्रभाके साथ चन्द्रमा भी क्षीण हो रहा है / [ प्रातःकाल हो गया, अत एव अब आप शय्या त्यागकर उठिये ] // 4 // स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चचूपुटस्फुटचुम्बितः / अपि मधुकरी कालिम्मन्या विराजति धूमल च्छविरिव रवेलाक्षालक्ष्मी करैरभिपातुकैः / / 5 // स्फुरतीति / तिमिरस्तोमः तमोराशिः, लाक्षालचमीम् अलक्तकशोभाम , अभिपातुकैः अभिक्रामद्भिः, पराजेतुमिच्छभिरित्यर्थः / लाक्षावर्गादपि अधिकारुणवर्णैरिति यावत् / उदीयमानसूर्यकिरणानां तद्वत् परिदृश्यमानत्वादिति भावः / 'लषपत-' इत्यादिना उकड, 'न लोक-' इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया / रवः सूर्यस्य, करैः किरणः, किरणसम्पातरित्यर्थः / पुरु भूयिष्ठं यथा तथा, सितगरुतां श्वेतपक्षाणां हंसानाम , 'हंसास्तु श्वेतगरुतः इत्यमरः / चञ्चद्भिः चञ्चले, मृणालभक्षणार्थं कर्दमालोडनव्यग्रतयेति भावः। चञ्चपुटैः अरुगवणे ब्रोटियुगलैः, स्फुट स्पष्टम् , चुम्बितः स्पृष्टः, विलोडितः इत्यर्थः / पङ्कप्रपञ्चः कर्दमराशिः इव, उच्चकैः अत्यर्थ, स्फुरति दीप्यते इत्युपमा / तथा कालीम आत्मानं मन्यते इति कालिम्मन्या अतिकृष्णा इत्यर्थः / वर्णे अर्थे 'जानपद-' इत्यादिना डीप , कालशब्दोपपदात् मन्यतेः 'आरममाने खश्च' इति खश प्रत्ययः, 'खित्यनव्ययस्य' इति हम्वः / 'अरुर्द्विषत्-' इत्यादिना मुमागमः / मधुकरी भृङ्गी अपि, लाक्षालक्ष्मीम् अभि