________________ ऊनविंशः सर्गः। निषधवसुधामीनाङ्कस्य प्रियाऽङ्कमुपेयुषः / श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविक स्फुटरसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः॥ 1 // अथ काव्ये प्रयोगवैचित्र्यस्यालङ्कारत्वादस्मिन् सर्गे तद्वैचित्र्यमाश्रित्य प्रभातव. नमारभते-निशीति / निशि निशायाम् / पन्नोमास्-' इत्यादिना निशादेशः। दशमः वयोऽवस्थाविशेषः अस्याः अस्तीति दशमिनी वृद्धा 'वर्षीयान् दशमी ज्यायान्' इत्यमरः / 'वयसि पूरणात्' इति इनिः प्रत्ययः / तस्याः भावः तत्ता दशमिता वृद्धत्वं तां चरमावस्थामित्यर्थः / स्वतलोगुणवचनस्य' इति पुंवद्रावः / आलिङ्गन्यां स्पृशन्त्याम् , प्राप्नुवन्यामित्यर्थः। प्रभातप्रायायां सस्यामिति भावः। प्रियायाः दमयन्त्याः , अङ्कम् उत्सङ्गम् , उपेयुषः प्राप्तस्य, प्रियामालिङ्गय निद्रितस्येत्यर्थः / निषधवसुधामीनाङ्कस्य निषधदेशमन्मथस्य नलस्य, निबोधविधिस्सुभिः जागरणं विधातुमिच्छुभिः / गम्यादिपाठात् द्वितीयासमासः। वैतालिकः बोधकरैः, निद्वा. भञ्जकै वन्दिभिरित्यर्थः / 'वैतालिका बोधकराः' इत्यमरः / श्रुतिमधुपदरजां श्रुती कर्णे, मधूनां मधुराणाम् , पदानां सुप्तिङन्तशब्दानाम् , या स्त्रक माला, पतिरि. स्यर्थः / तासां या वैदग्धी रचनाचातुर्यम् , कौशिक्यादिवृत्तिसम्पत्तिरिति यावत् / तया विभाविताः व्यक्षिताः, भावाः स्थायिप्रभृतयः अस्य सन्तीति भाविकः रसबोधविभावादिचतुर्विधभाववान् / 'अतः इनिठनौ' इति मत्वर्थीयष्ठन्प्रत्ययः / अत एव स्फुटः अभिव्यक्तः, संवेद्यतां प्राप्तः इत्यर्थः / रसः शृङ्गारादिरेव रसः स्नेहद्रवः, तेन भृशम् अत्यर्थम् , अभ्यताः म्रक्षिताः, स्निग्धीकृता इत्यर्थः। रसभरिताः इति यावत्। गिरः वयमाणगीतवाचः, जगिरे गीयन्ते स्म / गायतेः कर्मणि लिट् / अस्मिन् सर्गे हरिणी वृत्तम् ; 'रसयुगहयैन्सौं म्रौ ग्लौ गो यदा हरिणी तदा' इति लक्षणात् // 1 // (इस सर्गमें प्रयोगवैचित्यका आश्रयकर ग्रन्थकार प्रभातवर्णन करते हैं-) रात्रिकी अन्तिमावस्था प्राप्त करने ( समाप्तप्राय होने ) पर प्रिया ( दमयन्ती) के अङ्गको प्राप्त ( कर सोए हुए ) तथा निषध देशके कामदेव ( नल ) को जगानेके इच्छुक वैतालिकलोग कर्णप्रिय पदसमूहके चातुर्यसे व्यञ्जित ( शृङ्गारादि ) रसके प्रकाशित होनेसे अतिशय सिक्त अर्थात् सरस वचन गाने ( कहने ) लगे। [वैतालिकोंने नलको जगाने के लिए पद समूह कहना आरम्भ किया // 1 // जय जय महाराज ! प्राभातिकी सुषमामिमां सफलयतमां दानादक्ष्णोदरालसपक्ष्मणोः।