________________ 1234 नैषधमहाकाव्यम् / प्रथमशकनं शय्योत्थायं तवास्तु विदर्भजा प्रियजनमुखाम्भोजात् तुङ्गं यदङ्ग ! न मङ्गलम् // 2 // जय जयेति / हे महाराज ! नल! जय जय 'अभीषणं सर्वोत्कर्षेण वर्तस्व / 'नित्यवीप्सयोः' इति द्विर्भावः। दरम् ईषत् , अलसानि तदाऽपि निद्रावेशसत्वात् निश्चेष्टानि, पचमाणि नेत्रलोमानि ययोः तादृशयोः 'अल्पार्थे त्वव्ययं दरम्' इति यादवः / अक्षणोः चक्षुषोः, दानात निक्षेपात् , दृष्टिप्रदानादित्यर्थः / इमां पुरोवत्तिनीम् , प्राभातिकी प्रत्यूषकालिकीम् , सुषमां परमां शोभाम , सफलयतमाम अति. शयेन सफलय. नरपतिकर्तृकदर्शने शोभायाः सफलत्वात् / 'किमेत्तिडव्यय-' इति आमुप्रत्ययः। विदर्भजा वंदी, शय्योत्थायं शय्यायाः सत्वरम् उत्थाय, 'अपादाने परीप्सायाम्' इति णमुल् / परीप्सा स्वरा / एतेन स्त्रियः प्रथमोत्थानं लभ्यते, 'चर. ममपि शयित्वा पूर्वमेव प्रबुद्धा' इत्युत्तमाङ्गनालक्षणात् त्वत्तः पूर्वमेव शयनात् सत्व रमुत्थाय अवस्थिता इत्यर्थः / तव ते, प्रथमशकुनं प्राथमिक मङ्गलजनकं दृश्यम् , अस्तु भवतु, तदा तस्यामेव प्रथमाक्षिपातात् इति भावः / कुत इत्यत आह-यत् यस्मात् , अङ्ग ! भोः! प्रियजनस्य प्रीतिपात्रस्य, मुखाम्भोजात् वदनकमलात् , आननपद्मदर्शनादित्यर्थः / तुङ्गम् अधिकम् , मङ्गलं श्रेयः, न, अस्ति इति शेषः / इत्यर्थान्तरन्यासः // 2 // हे महाराज ( नल ) ! विजयी होवो, विजयी होवो, इस प्रातःकालीन उत्कृष्ट शोभाको कुछ आलसयुक्त पलकोंवाले नेत्रों के देनेसे ( तत्काल निद्राभङ्ग होने के कारण ईषत् आलसी पलकोंवाले नेत्रों के द्वारा देखने से ) कृतार्थ करो / विदर्भकुमारी ( दमयन्ती ) शय्यासे उटकर तुम्हारे लिए प्रथम माङ्गलिक वस्तु हो, क्योंकि हे अङ्ग ( स्वामिन् ) ! प्रियजनके मुखकमलके अतिरिक्त दूसरी कोई वस्तु श्रेष्ठ मङ्गल ( करनेवाली ) नहीं है। [ आप उठकर प्रातःकालकी श्रेष्ठ शोभाको देखेंगे तो वह शोभा राजावलोकित होवेसे सफल हो जायेगी। तथा आपके उठने के पूर्व ही दमयन्ती शय्यासे उठेगी, अतः आप उठते ही सर्वप्रथम प्रातःकाल माङ्गलिक वस्तुको देखनेका शास्त्रीय विधान होने से उसके मुखको देखकर उस विधानको पूरा करेंगे, क्योंकि प्रियजनके मुखका देखना सर्वश्रेष्ठ मङ्गल है ] // 2 // वरुणगृहिणीमाशामासादयन्तममुं रुची. निचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् / तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमिव स्मेरं धत्ते हरेमहिषी हरित || 3 // वरुणेति / असौ दृश्यमाना, हरेः इन्द्रस्य, महिषी साम्राज्ञीस्वरूपा, हरित् प्राची दिक् , काचित् राजपत्नी च, वरुणगृहिणीं वारुणीम, आशां दिशम् प्रतीचीमित्यर्थः / काञ्चित् पुरुषान्तरपत्नीच, आसादयन्तम् अस्तोन्मुखत्वात् प्राप्नुवन्तम् , सङ्गच्छ.