________________ 748 नैषधमहाकाव्यम् / मथितं तक्रं, मथनोद्भूतो निर्जलोदधिक्षीरविकारः इत्यर्थः, 'तक्र ादश्विन्मथितं पादाम्वम्बुि निर्जलम्' इत्यमरः, तद्भूते आदेशे इवादेशे रूपान्तरे, निर्मिते सम्पादिते सति, रूपान्तरापादनेन क्षीराब्धी अभावं गमिते सतीत्यर्थः, अथवा द्रवोपरि अव. स्थानासम्भवात् दुग्धरूपे तज्जले अतिघने कृते सतीत्यर्थः, तत् तथा, क्षीरत्वेन प्रसि. द्धम् उदकं यस्य स क्षीरोदः क्षीराब्धिः, 'उदकस्योदः संज्ञायाम्' इत्युदादेशः, तद्र पं सिंहासनं स्वेन आत्मना, सु सुखेन वा, आक्रम्यम् उपवेशनयोग्यं, सृजतः कुर्वतः, घनीभूतं क्षीरसमुद्रमुपविशतः इत्यर्थः; यशसो विशेषणमेतत् बोध्यम् , अस्य राज्ञः, यशसः एतस्य राज्ञः सम्बन्धि, कवित्वम् एतद्रचितं काव्यम् , अथवा कविनिर्मितम् एतत्सम्बन्धि कीर्तिवर्णनरूपं काव्यमित्यर्थः, तदेवामृतं कर्णरसायनत्वादमृतरूपमित्यर्थः, तस्य स्रोतसा प्रवाहेण, प्रोते पूरिते, पिपासूनां पातुमिच्छूनाम् , अत्यादरेण कवित्वामृतशुश्रषूणां जनानामित्यर्थः, कर्णावेव कलस्यौ अभिषेचनकुम्भौ, भजतीति तद्भाजा, केषां वा जगतां भुवनानां सम्बन्धिना, जनेन अभिषेकोत्सवः अभिषेकजन्यः आनन्दोत्सवः, न अजनि ? न जनितः ? जनेय॑न्तात् कर्मणि लुङ, भुवनान्तरस्था अपि कवयः आ-क्षीराब्धिप्रसृतमेतद्यशः सर्वत्र आनन्दकरं वर्णयन्ति स्म इत्यर्थः; एतद्यशः लोकपरम्परया क्षीरसमुद्रपर्यन्तगामीति भावः / देवैः क्षीरोदसमुद्रे मथिते सति तत्र जलाभावात् अधुना क्षीरोदसमुद्ररूपसिंहासनम् अधिकृतवति एतद्राजयशसि एतद्यशःक्षीरोदस्य वर्णयितारः अखिलाः कवय एव अभिषेक्तारः कवि. त्वमेव जलं श्रोतृजनकर्णा एव कलसाः तत्सम्भवायाः सरितः प्रसर्पणात् स्तुतिः एवाभिषेक इति रूपकालङ्कारः / अथवा लोके यथा कस्मिंश्चित् राजनि केनचित् मथिते तदीयं सिंहासनम् आक्रम्याधितिष्ठतोऽन्यस्य जनैर्जलपूर्णकलसेनाभिषेकः क्रियते तद्वदिति भावः // 74 // देवों के द्वारा क्षीरसमुद्र के जलको मथनकर 'मथित' आदेश करने (मथन किया हुआ निर्जल दधि-विशेष ( छिनुई दही ) बनाये जाने ) पर क्षीरसमुद्र के जलको अपने आक्रमण करने ( बैठने ) योग्य बनानेवाले इस राजाके यशका-इस ( द्युतिमान् राजाकी ) कवितारूपी अमृतके प्रवाहसे पूर्ण किये गयेको पान करने ( सुनने) के इच्छुकों के कानरूपी दो कल शोको धारण किये हुए किस संसार के लोगोंका अभिषेकोत्सव नहीं हुआ ? अपि तु सभी संसारके लोगोंका अभिषेकोत्सव हुआ। [ 'मित्रवदागमः, शत्रुवदादेशः' सिद्धान्तके अनुसार क्षीरसमुद्रके जलको देवोंने 'मथित' (निर्जल मया गया दधि-विशेष ) बना दिया ( आदेश होने के कारण क्षीरसमुद्रके जलका नाश होना उचित ही है ) और उसे इसके यशने अपने बैठने योग्य सिंहासन बनाया अर्थात् क्षीरसमुद्रतक इसका यश फैल गया तथा इस राजाकी कवितारूपी अमृत प्रवाहसे पूर्ण किये गये उसको पीने (पक्षा०-इसकी प्रशंसा सुनने ) के इच्छुक लोगोंके दोनों कान दो कलश हुए उनके द्वारा उस (क्षीरसमुद्रको मथित बनाकर तद्रूप सिंहासनारूढ ) यशका अभिषेक किस जगतके निवासियोंने नहीं किया ?