________________ द्वादशः सर्गः। एतदत्तासिघातस्रवदसृगसुदृद्वंशसाईन्धनैतहोरदामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय / एतद्दिाजैत्रयात्राऽसमसमरभरं पश्यतः कस्य नासी देतन्नासीरवाजिब्रजखुरजरजोराजिराजिस्थलीषु ? / / 73 / / एतदिति / आजिस्थलीषु रणभूमिप्नु, एतस्य राज्ञः, नासीरे सेनामुखे, वाजिव. जानां खुरैः जाता रजसा राजिः पङ्क्तिः, एतस्य राज्ञः, दिशो जैत्रासु, तृन्नन्तत्वात् षष्ठीसमासनिषेधः, यात्रासु दिग्विजययात्रासु, असमम् असदृशम् ,अतुलनीयमित्यर्थः, समरभरं समरव्यापारं, पश्यतः अवलोकयतः, कस्य जनस्य, एतेन राज्ञा, दत्तैः प्रयक्तैः असिघातैः खड्गप्रहारैः, स्रवदसृजः क्षरद्रक्ताः, असुहृदः शत्रुवर्गाः एव, वंशाः वेणवः, 'वंशो वर्गे कुले वेणौ' इति विश्वः, त एव सार्दैन्धनानि सरसानि दाह्यकाष्ठानि, यस्य एतादृशो यः एतस्य राज्ञः, दोष्णोः भुजयोः, उद्दामः प्रचण्डः, प्रताप एव ज्वलदनलः तस्मिन् मिलतां सङ्गच्छमानानां, वर्तमानानामिति यावत् भूम्नां बहूनां, धूमानां भ्रमाय भ्रान्त्य, न आसीत् ? सर्वस्यापि आसीदेवेत्यर्थः। अत्र रजोराजौ कविसम्मतसादृश्यात् धूमभ्रामोक्त्या भ्रान्तिमान् अलङ्कारः॥ 73 // ___ इस राजाके सेनाग्रमें अश्व-समूहके खुरोंसे उत्पन्न धूलि-समूह इस राजाके दिग्विजयको यात्रामें अतुलनीय युद्धव्यापारको देखनेवाले किस (व्यक्ति ) के इस ( राजा ) के द्वारा किये गये खड्गप्रहार (तलवारकी चोट ) से बहते हुए खूनवाले शत्रुवंश (शत्रु-समूह, पक्षा०शत्रुरूपी बांस ) रूपी गीले इन्धनवाली इस राजाकी गम्भीर ( महान् ) प्रतापरूपी जलती हुई अग्निमें होनेवाले धूम-समूहके भ्रमके लिए नहीं होता ? अर्थात् सबके भ्रमके लिए होता है। [इस राजाकी दिग्विजययात्रामें सेनाके आगे दौड़नेवाले अश्वसमूहके खुरसे उडी धूलि-समूहको देखकर इस राजाके अनुपम युद्धव्यापार देखनेवाले लोगोंको यह भ्रम हो जाता है कि इसने शत्रुओंपर जो तलवारका प्रहार किया है, उससे रक्त बहाते हुए शत्रुसमूह ( पक्षा०-शत्रुरूप बांस ) ही गीले इन्धन हैं और उन ( उक्तरूप गीले इन्धन) के इस राजाके विशाल प्रतापरूपी जलती अग्निमें पड़नेसे धूम-समूह निकल रहा है। गीले इन्धनके अग्निमें पड़नेपर धूम-समूहका निकलना उचित ही है / सव शत्रु इसके प्रतापरूपी अग्निने जल गये हैं ] // 73 // क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मिते स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् / केषां नाजनि वा जनेन जगतामेत कवित्वामृत स्रोतःप्रोतपिपासुकर्णकलसीभाजाऽभिषेकोत्सवः ? // 74 // क्षीरोदन्वदिति / अमरैः देवैः, क्षीराणाम् उदन्वतः क्षीराब्धेः, आपः दुग्धरूपजलानि, क्षीरोदन्वदपाः 'ऋक्पू:-' इत्यादिना समासान्तः, ताः प्रमथ्य विलोड्य, 47 नै० उ०