________________ 1200 नैषधमहाकाव्यम् / बाहुबल्लिपरिरम्भमण्डली या परस्परमपीडयत् तयोः / आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः // 61 / / बाद्विति / तयोः भैमीनलयोः, या बाहुबल्लिभ्यां भुजलताभ्याम् , परिवरभे परस्परसंश्लेषेण, मण्डली वेष्टनम् , भुजचतुष्टयानां मण्डलाकारता इत्यर्थः / परस्परम् अन्योऽन्यम् , अपीडयत् प्रगाढसंश्लेषेण पीडितवती, सः परिरम्भव्यापार इत्यर्थः / हृदये शेते इति हृदयेशयः कामः तस्य / 'अधिकरणे शेतेः' इत्यच प्रत्ययः / 'शयवासवासिष्वकालात्' इत्यलुक / हेमनलिनीमृणालात् स्वर्णकमलिनीदण्डात् , जायते इति तज्जः अतिगीरत्वात् मृदुत्वाञ्च सुवर्णमयकमलदण्डात् जात इव प्रती. यसानः, पाशः पाशाख्यबन्धनरज्जुरेव, आस्त अभवत् इत्युत्प्रेक्षा // 91 // उन दोनों के बाहुरूपी लताके आलिङ्गनकी गोलाई (वृत्ताकारता) ने परस्परम ( आलिङ्गन करते समय ) पीडित किया, वह स्वर्णकमलिनीके मृणालका बना हुआ कामदेव का पाश (बांधनेकी रस्सी ) ही हो गया / [ कोमल, पतले तथा लम्बे होनेसे लतातुल्य बाहुचतुष्टयसे परस्पर पीडनपूर्वक एक दूसरे का आलिङ्गन करनेसे ऐसा मालूम पड़ता था कि सुवर्णमयी कमलिनीके मृणालसे बना हुआ कामदेवका वह पाश ( बन्धनरज्जु ) हो परस्परा लिङ्गन करनेसे वे दोनों कामके वशीभूत हो गये ] // 91 // बल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः / केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम् / / 62 // बल्लभेनेति / वल्लभेन प्रियेण नलेन, परिरम्भेण प्रगाढालिङ्गनेन, पीडितो चिपि. टीकृती इत्यर्थः / प्रेयस्याः दमयन्त्याः, हृदि वक्षसि, स्थितौ इति शेषः / कुचौ स्तनौ एव, केलतीमदनयोः रतिकामयोः / 'कामस्त्री केलती रतिः' इति यादवः / उपाश्रये अवष्टरमभूते, तत्र दमयन्तीवति, वृत्त वत्त ले, मिलिते परस्परसङ्गते, उपधाने उपबहें / 'उपधानं तूवबहम्' इत्यमरः / तयोः भावः तत्ता ता शिरोनिधानताम् , अवापतुः जग्मतुः इति शेषः / इत्युत्प्रेक्षा // 52 // प्रियतमा (दमयन्ती ) को छातीमें प्रियतम (नल ) के द्वारा ( आलिङ्गन-कालमें ) अतिशय पीडित अर्थात दबे हुए ( दमयन्तीके ) दोन स्तन रति तथा कामदेवके विश्रामस्थानपर गोलाकार मिली हुई दो तक्यिोंके समान हो गये। [ नलके गाढालिङ्गनसे दबे हुए दलयन्तीके दोनों स्तन रति-कामके गोलाकर तकियों के समान मालूम पड़ते थे] // 92 / / तत् प्रियोरुयुगलं नलार्पितैः पाणिजस्य मृदुभिः पदैर्बभौ / उत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् / / 93 / / / तदिति / तत् अतिमनोज्ञम , प्रियायाः, कान्तायाः, उरुयुगलं सक्थिद्वयम , नलेन अपितैः न्यस्तैः, कृतरित्यर्थः मृदुभिः कोमलैः, ईषन्मात्रेरित्यर्थः / पाणिजस्य, नखस्य, 1. 'तत्प्रशस्ति' इति पाठान्तरम्।