________________ अष्टादशः सर्गः। 1181 एवम् , आलपन् उदीरयन्नेव, स नलः, तदीयं तस्याः प्रियायाः इदं दमयन्तीसम्ब. न्धिनम् , आदिमम् आद्यम् / 'अग्रादिपश्चाड्डिमच्' इति वार्तिकवचनात् डिमचप्रत्ययः। रसनावलिव्ययंकाञ्चीदाममोचनम् , व्यधत्त चकार / रन्तुमिति भावः॥५७॥ ___(हे प्रिये दमयन्ती!) चुम्बन आदि (आलिङ्गन, स्तनमर्दन आदि ) में क्या ( तुम्हारा कौन-सा अनिष्ट ) हुआ ? अर्थात् कुछ नहीं, अनिष्ट नहीं हुआ, इस कारण इस ( किये जानेवाले सुरत, या-करधनी खोलने, या ऊरुसंवाहन ) में व्यर्थ भयको मत करो' ऐसा कहकर इस नलने ( लज्जादिके कारण अतिशय चपल) मृगनेत्रके तुल्य नेत्रबाली ( दमयन्तीकी) करधनीको पहली बार ( सर्वप्रथम ) खोला। अस्तिवाम्यभरमस्तिकौतुकं साऽस्तिधर्मजलमस्तिवेपथु / अस्तिभीति रतमस्तिवान्छितं प्रापदस्तिसुखमस्तिपीडनम् / / 58 / / अस्तीति / सा भैमी, अस्ति विद्यमानः, वाम्यस्य सर्वेष्वेव व्यापारेषु प्रतिकूल. तायाः, भरः आतिशय्यं यस्मिन् तत् तादृशम्, 'अस्ति' इति विभक्तिप्रतिरूपकं विद्यमानार्थकमव्ययम् , ''अस्तिक्षीराक्षीरादयश्च' इति वचनात् बहुव्रीहिः / एवमुत्तरत्रापि द्रष्टव्यम् / अस्ति विद्यमानं, कौतुकम् औत्सुक्यं यस्मिन् तत् तादृशम्, अस्ति धर्मजलं स्वेदवारि, श्रमजनितमिति भावः। यस्मिन् तत् तादृशम् , अस्ति वेपथुः कम्पः, शब्दोऽयं सात्विकमात्रोपलक्षणम् , यस्मिन् तत् तादृशम्, अस्ति भीतिः भयं यस्मिन् तत् तादृशम् , अस्ति वान्छितम् ईप्सितं यस्मिन् तत् तादृशम्, अस्ति सुखम् मान. न्दानुभवो यस्मिन् तत् तादृशम् , अस्ति पीडनं नखदन्तक्षतादिव्यथा यस्मिन् तन् तादृशम् , रतम् एवम्भूतं सुरतसम्भोगम, प्रापत् अलम्भिष्ट / नलादिति शेषः // 5 // ___ उस ( दमयन्ती) ने (पहले ) अतिशय प्रतिकूलतायुक्त ( अनन्तर सुरतारम्भकालमें पूर्वानुभूत नहीं होनेसे ) कौतूहलयुक्त (तदनन्तर सात्त्विक भाव उत्पन्न होनेसे परिश्रमजन्य ) स्वेदयुक्त तथा कम्पयुक्त ( तदनन्तर सुरतके आरम्भ हो जानेपर पूर्वजात भय दूर होनेपर भी आगे क्या होगा ? एवंभूत ) भययुक्त ( सुखकारण होनेसे ) अभिलाषायुक्त, (समरस सुरतके होनेसे ) सुखयुक्त और ( उससे भो अतिशय गाढालिङ्गनादि होनेसे ) पीडायुक्त सम्भोगको प्राप्त किया। (दमयन्तीने सर्वप्रथम उक्तरूप मैथुन किया)॥५८ // हीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः। तत्तु नित्रपमजस्रसङ्गमात बीडमावहति मामकं मनः // 59 / / हीरिति / हे प्रिये ! यत् यस्मात् , तावके त्वदीये, मनसि चेत्तसि, मत्समागमः मम सङ्गतिः, नवः साम्प्रतिकः, इति सोलुण्ठोक्तिः , तत् तस्मात् , तव ते, इयम् 1. 'अस्तिक्षीरादयश्च' इत्येवोचितम् / सिद्धान्तकौमुद्यान्तु 'अनेकमन्यपदार्थे' इति सूवस्योदाहरणे 'अस्ति' इति विभक्तिप्रतिरूपकमव्ययम् / 'अस्तिक्षीरा गौः' इत्युक्तं भट्टोनिदीक्षितेन।