________________ नैषधमहाकाव्यम् / कुर्वती निचुलितं हिया कियत् सौहृदात् विवृतसौरभ कियत् / . कुडमलोनिमषितसूनसेविनी पद्मिनी जयति सा स्म पद्मिनी / / 46 // कुर्वतोति / पद्मिनी पद्मिनीस्त्रीजातीया, सा भैमी, कियत् किञ्चित् रात्रिवृत्तम् , हिया लज्जया, निचुलितं सखी समीपेऽपि निगूहितम् , कियत् किञ्चिच्च, सुहृदो भावः सौहृदं तस्मात् सौहृदात् सौहार्दात् , प्रणयाधिक्यादित्यर्थः। युवादित्वादग्प्रत्ययः। हृदयस्य 'हृदयस्य हल्ले वयदणलासेषु' इति हृद्भावे बाहूलकान्नोभयपदः बृद्धिः / विवृतं प्रकटितम् , सौरभं मनोज्ञवं सौगन्ध्यञ्च यस्य तत् तादृशम् , कुर्वती विदधती सती, कुडमलानि मुकुलानि, उन्मिषितसूनानि प्रस्फुटितकुसुमानि च, सेवते भजते इति तादृशीम , पद्मनी कमलिनीम् , जयति स्म विजितवती, किय. कलिकाट्या कियद्विकसितकमलाढ्या च कमलिनीव सा बभौ इत्यर्थः / रहस्यगोपने कलिकातुल्यं रहस्यप्रकटने च विकशितपद्मतुल्यमिति भावः // 49 // ( कामशास्त्रोक्त ) पभिनी-जातीया उस ( दमयन्ती) ने लज्जासे ( रात्रिमें पतिके साथ किये गये रति-विषयक ) कुछ ( सम्भोगादि ) को अप्रकाश करतो हुई तथा सौहार्द ( सखि. भाव ) से कुछ ( आलिङ्गनादि कर्म ) को प्रकटित कामशास्त्रोक्त कुशलतावाला ( पक्षासुगन्ध वाला ) करती हुई अर्थात् आलिङ्गनादि कुछ सम्भोग-सुखको सखी होने के कारण उन सखियोंसे बतलाती हुई, कोरक तथा स्वल्पविकसित पुष्पवालो कमलिनोको जीत लिया। जिस प्रकार कमलिनी कोरकावस्थामें अपने गन्धको प्रकटित नहीं करती तथा कुछ विकसित होनेपर उसे प्रकटित करती है, उसी प्रकार दमयन्ती भी लज्जावश पतिके साथ हुए रतिकालिक कुछ (चुम्बनादि ) भावको छिपाती थी और सखी होने के कारण प्रेमवश कुछ ( आलिङ्गनादि ) कर्मको उनसे प्रकट करती ( कहती) थी, इस प्रकार 'पद्मिनी' जातीया दमयन्ती पद्मिनीके तुल्य हुई / / 49 / / . नाविलोक्य नलमासितुं स्मरोहीन वीक्षितुमदान्मृगीदृशः। तदशः पतिदिशाऽचलन्नथ वीडिताः समकुचन्मुहुः पथः / / 50 / / नेति / स्मरः कामः, मृगीदृशः हरिणलोचनायाः भैम्याः सम्बन्धे, नलं नैषधम् , अविलोक्य अदृष्ट्वा, आसितुं स्थातुम् , न अदात् न दत्तवान् , होः लज्जा पुनः, वीक्षितुं द्रष्टुम , न अदात् , अत एष तस्याः दमयन्त्याः , दृशः दृष्टयः, पतिदिशा स्वामिनं प्रतीत्यर्थः / मुहुः पुनः पुनः, अचलन् अगच्छन् / अथ 'अनन्तरमेव, ब्रीडिताः लज्जिता सत्यः, पथः तन्मार्गात , समकुचन् सङ्कुचिताः अभवन् / अतीव कौतुकमिदमित्याशयः // 50 // 1. 'बीक्षितुमदत्त सुभ्रवः' इति पाठान्तरम् / अत्र 'प्रकाश' कारः-'वीच्यते स्म' इति पाठः सुयोजः। यद् यस्माद्विलोकननिमित्त तत्र तत्र वस्तुनि नेत्रे ददत्या स बीयते स्मैव, तस्माल्लक्ष्यतां परोक्षतां च नानायीति वा, इत्याह /