________________ 1162 / नैषधमहाकाव्यम् / अह्निभानुभुवि दासदारिकां यच्चरः परिचरन्तमुज्जगौ / कालदेशविषयासहस्मरादुत्सुकं शुकपितामहं शुकः / / 24 / / अह्वीति / यञ्चरः यत्सौधचारी, शुकः कीरः, कालः रात्र्यादिः, देशः निर्जना दः, विषयः उपभोग्याया नार्या अवस्थादिः, तेषाम् असहात् अक्षमात्, योग्यायोग्य. विचारविलम्बासहिष्णोरित्यर्थः / स्मरात् कामातू, कामताडनादित्यर्थः / उत्सुकम् इच्छापूरणयोद्युक्तम् / 'इष्टाथोंयुक्त उत्सुकः' इत्यमरः। अत एव अति दिवेव, न रात्रौ इति भावः / 'भानुभुवि सूर्यतनयायां यमुनायाम, यमुनामध्यस्थद्वीपे इत्यर्थः / न विविक्ते इति भावः / 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः दासदारिका कैवर्तकन्याम, सत्यवतीमित्यर्थः / न तु कुलीनामिति भावः / 'कैवर्ते दासधीवरौ' इत्यमरः / परिचरन्तं सेवमानम्, रमयन्तमिति यावत् / शुकपितामहं व्यासपितरं पराशरम् 'शुको व्यासुते कीरे' इति विश्वः / उज्जगी गायति स्म / पराशरस्य दासराजकन्यकासमागमं पुराणादी श्रुतं पुनः पुनरुच्चैः पपाठेत्यर्थः // 24 // __जहाँ रहनेवाला शुक (तोता), कामदेव ( जन्य विकार ) में समय, देश तथा विषयको नहीं सहनेवाले ( अत एव ) दिनमें यमुना (के द्वीप ) में धीवरकन्या (योजनगन्धासत्यवती) के साथ सम्भोग करते हुए शुकदेवजीके पितामह (महर्षिन्यासके पिता) का उच्च स्वरसे गान करता (नामोच्चारण करता) था अर्थात् उनके उक्त सम्भोगको कहता था। [यद्यपि शास्त्रमें रात्रिमें, तीर्थस्थानादिसे भिन्न एकान्त स्वगृहादिमें तथा स्वस्त्रीके साथ ही सम्भोग का विधान और दिनमें, तीर्थस्थानमें और परस्त्री-उसमें भी निषाद (शूद्र ) कन्याके साथ सम्भोग करनेका निषेध किया गया है, किन्तु काम-पीडित महर्षि व्यासजीके पिताने काल (दिन ), देश ( तीर्थस्थान-यमुना नदी) और विषय (शूद्रकन्या) होनेका विचार छोड़. कर जो उसके साथ सम्भोग किया था इस बातको महाभारतकी कथा सुननेसे शीघ्र शिक्षा ग्रहण करनेवाला जिस प्रासादपर रहने वाला तोता भी उच्च स्वरसे कह रहा था। लोकमें भी कोई सज्जन बुरे कर्म करनेवाले अपने पितामहकी भी निन्दा करता फिरता है ] // 24 // नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोऽर्णवम् / / अप्सरःकुचघटावलम्बनात् स्थायिनः वचन यत्र चित्रगाः // 25 // नीतमिति / यत्र सौधे, वचन कुत्रचित् प्रदेशे, करलभ्यपारतां पाणिप्राप्यचरमसीमात्वम्, अचिरमेव लप्स्यमानफलस्वमित्यर्थः, नीतमेव प्राप्तमेव, तीर्णप्रायमेवे. स्यर्थः / तपोऽर्णवं तपस्यासागरम्, अप्रतीर्य अनुत्तीर्य, तपस्यातो विरस्येत्यर्थः / अप्सरसां स्वर्वेश्यानां, कुचाः स्तना एव, घटाः कुम्भाः, तेषाम् अवलम्बनात् माश्रयात्, स्थायिनः अवतिष्ठमानाः, विश्रामपरा इत्यर्थः। तरणश्रान्ताः घटादिकम. "चलम्ब्य विश्राम्यन्तीति प्रसिदिः / मुनयः विश्वामित्रादयः, चित्रगाः आलेल्यवर्तिनः, चित्रे अङ्किताः विद्यन्ते स्म इत्यर्थः // 25 //