________________ सप्तदशः सर्गः। 1143 धर्मे धर्मकाय, अकर्मठमपि अनुपयुक्तमपि, सर्वेषां समस्तजातीयानाम , उद्भिदा तरुगुल्मलतादीनाम् , भासत्तेः विद्यमानतायाः, पूरणाय पूर्तये, रोपितम् अर्जितम् , अत्रोद्याने सर्वविधतरुगुल्मादयः सन्तीति कीतिस्थापनायारोपितं न तु देवद्विजपूजा. घर्थम् , तत्पत्रादीनां देवपूजाद्यनहत्वादिति भावः। बिभीतकं कर्षफलं नाम, एकं कञ्चित् , कुटं वृतम् / वृक्षो महीरुहः शाखी, अनोकहः कुटः शालः' इत्यमरः / ददर्श अवलोकयामास // 208 / / उस ( कलि ) ने उस ( उपवन ) में धर्मकार्य में उपयुक्त नहीं होनेपर मी समस्त उद्भिद् ( वृक्ष, लता, गुल्म, क्षुप आदि ) की पूर्ति के लिए (इस उपवनमें सब प्रकारके उद्भिद् हैं। इस उद्देश्यसे ) रोपे गये एक बहेड़ेके पेड़को देखा / 208 // स तं नैषधसौधस्य निकटं निष्कुटध्वजम् / बह मेने निज तस्मिन् कलिरालम्बनं वने / 206 / / स इति / सः कलिः, तस्मिन् वने गृहारामे, नैषधसोधस्य नलप्रासादस्य, निकटं नेदिष्ठम् , निष्कुटस्य गृहारामस्य, 'गृहारामस्तु निष्कुटः' इत्यमरः / ध्वज चिह्नस्वरूपमित्यर्थः / तं बिभीतकम् , निजम् आत्मीयम , आलम्बनम् आश्रयम् , बहु अधिक यथा तथा, मेने विवेचयामास। धर्मकार्यानुपयोगिनि तत्र सुखवाससम्भवात् अत्युच्चे तस्मिन्नवस्थानेन नलदोषविचारसम्भवाच्च तं स्वावलम्बनं बहु मेने इति भावः // उस ( कलि ) ने उस ( उपवन) में नल के महलके समीपवर्ती तथा (ऊँचा होनेसे ) उपवनके ध्वजस्वरूप उस (बहेड़ेके पेड़) को अपना अच्छा आश्रय (रहनेका स्थान) माना ! [ उस बहेड़ेके पेड़को धर्मानुपयुक्त होनेसे तथा नल के प्रासादके समीपवर्ती एवं ऊँचा होने के कारण वहां रहकर नलके दोषका निरीक्षण सरल होनेसे अपने लिए उपयुक्त अवलम्ब माना] // 209 // निष्पदस्य कलेस्तत्र स्थानदानात् बिभीतकः / कलिद्रुमः परं नासीदासीत् कल्पद्रुमोऽपि सः / / 210 // निष्पदस्येति / सः कलिवासत्वात् प्रसिद्धः, बिभीतकः कर्षफलवृक्षः निष्पदस्थ निराश्रयस्य, क्वचिदपि स्थानमप्राप्तवत इत्यर्थः / कलेः युगाधमस्य, तत्र आरामे, स्थानदानात् आवासप्रदानात् , परं केवलम् , कलिद्रुमः तत्र वासात् कलिसम्बन्धि. वृक्ष एव, 'त्रिलिङ्गस्तु बिभीतकः। नाऽक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः // ' इत्यमरः / न आसीत् न अभवत् , किन्तु कल्पद्रुमः कल्पवृक्षोऽपि, आसीत् अभवत् / वासरूपसङ्कल्पितार्थदानादिति भावः // 210 // _ वह बहेड़ेका पेड़ ( सर्वत्र धर्माचरण होनेसे ) पैर रखनेके लिए भी असमर्थ अर्थात् निराश्रय, पाठा०-(ठहरनेका स्थान नहीं पानेके कारण) स्पन्दरहित अर्थात् ( हिलने 1. 'निष्पन्दस्य' इति पाठान्तरम् /