________________ 1136 नैषधमहाकाव्यम् / तेनादृश्यन्त वीरना न तु वीरहणो जिनाः / नापश्यत् सोऽभिनिमुक्तान् जीवन्मुक्तानवक्षत / / 164 // तेनेति / तेन कलिना, वीरघ्नाः क्षात्रधर्मानुसारेण रणे वीरघातिनः, जनाः इति शेषः, 'अमनुष्यकत्त के च' इति चकारादच , अत एव 'क्वधिन्मनुष्यकत्त के ध' इति कौमारं सूत्रम् / अदृश्यन्त 'ऐच्यन्त, तु किन्तु, वीरहणः क्षत्रियघातिनः, जिनाः भट्टभास्कराः अग्नित्यागिनः वा वीर हा वा, 'एष देवानां योऽग्निमुद्वासयत' इति श्रतेरित्यनेन उपलक्षिता इति यावत् , न, अदृश्यन्त इति पूर्वक्रियया अन्वयः / सः कलिः, अभिनिमुक्तान् यान् सुप्तान् अभि सूर्योऽस्तमेति ते अभिनिर्मुक्ताः तान् , मुञ्चतेः कर्मणि क्तः / सूर्यास्तकाले निद्रितान् आचारहीनान् , न अपश्यत् न व्यलो. कयत् , किन्तु जीवन्मुक्तान् आत्मारामान पुण्यान् , जनान् , अवैक्षत अपश्यत् 194 उस ( कलि ) ने ( युद्ध में ) शुरवीरोंको मारनेवाले लोगोंको देखा, (किन्तु ) क्षत्रियोंको मारनेवाले भट्टभास्करोंको नहीं देखा ( अथवा-सदाचार अथवा-अग्निहोत्रका त्याग करने. वालों को नहीं देखा / अथवा-वीरोंको मार सकनेवाले लोगोंको देखा, किन्तु वीरोंको मारे हुए लोगों को नहीं देखा-इससे यह सूचित होता है कि यद्यपि उस राष्ट्रमें ऐसे वीर थे जो वीरों को युद्ध में मार सकते थे, किन्तु इतना सुशासन एवं शान्त तथा धर्मप्राण राज्य था कि सभी लोग भाईचारेके नातेसे रहते थे, किसी वीरको कोई दूसरा वीर मारता नहीं था ) / तथा अभिनिर्मुक्त (सूर्यास्त होनेतक सोनेवाले, अत एव अधार्मिक ) लोगोंको नहीं देखा और जीवन्मुक्तों (जीवितावस्थामें विषयपरित्यागी होनेसे आत्माराम ब्रह्मशानियों ) को देखा // 194 // स तुतोषाश्नतो विप्रान् दृष्ट्वा स्पृष्टपरस्परान् | होमशेषीभवत्सोम भुजस्तान् वीक्ष्य दूनवान् / / 165 / / स इति / सः कलिः, स्पृष्टं कृतस्पर्शम् परस्परम् अन्योऽन्यं यैः तान् स्पृष्टपरस्परान् परस्परस्पर्शपूर्वकमित्यर्थः / अश्नतः भक्षयतः, विप्रान् ब्राह्मणान् , दृष्ट्वा विलो. क्य, तुरोष मुमुदे, भोजनकाले परस्परस्पर्शस्य निषेधात् तद्विपरीतव्यवहारिणस्तान् दृष्ट्वा स्वाश्रयलाभाशया सन्तुष्ट इत्यर्थः / अथ तान् पूर्वोक्तप्रकारेणानतो विप्रान् , होमशेषीभवन्तं होमावशिष्टम् , सोमं सोमलताचूर्णम् , भुञ्जते अश्नन्ति इति भुजः, वीय दृष्ट्वा, ज्ञात्वा इति यावत् / दूनवान् परतप्तवान् , दुःखमनुभूतवानित्यर्थः / 'न सोमेनोच्छिष्टो भवति' इति श्रुतेः, 'इनुदण्डे तिले सोमे नोच्छिष्टो मनुरब्रवीत्' इति स्मृतेश्च सोमभक्षणे परस्परस्पर्शदोषाभावादिति भावः // 195 // वह ( कलि ) परस्परमें स्पर्शकर खाते हुए ब्राह्मणों को देखकर ( अधर्माचारयुक्त होनेसे भाश्रयप्राप्तिकी सम्भावनाकर ) सन्तुष्ट हुआ, (किन्तु ) होम करनेपर बचे हुए सोमलता 1. 'जनाः' इति पाठान्तरम् /