________________ 1130 नैषधमहाकाव्यम् / इष्टिं यागम , कुर्वन्तं सम्पादयन्तम् , दृष्ट्वा अवलोक्य, ज्ञात्वा इत्यर्थः। अदूयत पर्यंतप्यत, 'सौत्रामण्यां सुरां पिबेत्' इति श्रुतेः। तस्मिन् यज्ञे सुराग्रहणस्य शास्त्र. विहितत्वेन पापाभावात् निराशोऽभूत् इति भावः // 179 // ___ यह ( कलि ) ब्राह्मणको मदिरा लेता हुआ जान ( देख ) कर प्रसन्न हुआ, (किन्तु बाद में उस मदिरासे ) इन्द्रयाग करते हुए उस (ब्राह्मण ) को देखकर ( उस यागमें मदिराका निषेध नहीं होनेसे शास्त्रोक्त धर्मकार्य होता हुआ समझकर ) सन्तप्त हो गया / / 179 / / अपश्यद् यावतो ब्रह्म-विदा ब्रह्माजलीनसौ। ___ उदडीयन्त तावन्तस्तस्यात्राञ्जलयो हृदः // 180 / / अपश्यदिति / असौ कलिः, ब्रह्मविदां वेदाध्यायिनाम् , यावतः यावत्सङ्ख्यकान् , ब्रह्माञ्जलीन् वेदाध्ययनकालीनपाणिद्वयसम्पुटान् / 'संहत्य हस्तावध्येयं स हि ब्रह्माक्षलिः स्मृतः' इति स्मरणात् / 'अञ्जलिः पाठे ब्रह्माञ्जलिः' इत्यमरः। अपश्यत् ऐचत, तस्य कले, 'हृदः हृदयात् , तावन्तः तावत्सङ्ख्यकाः, अस्राञ्जलयः रक्ताञ्ज. ख्या, उदडीयन्त उड्डीनाः, निर्गता इत्यर्थः // 18 // इस ( कलि ) ने वेद पढ़नेवाले छात्रों के जितनी ब्रह्माञ्जलियोंको देखा, उसके हृदयसे उतनी ही रक्तकी अञ्जलियां निकल पड़ी अर्थात् उसका हृदय वेदपाठी छात्रोंको देखकर विदीर्ण हो गया। तथा उसके शरीरका रक्त सूख गया [ वेदाध्ययनके आरम्भ तथा अन्तमें गुरुके चरणद्वयकी वन्दनाकर पढ़ते समय हाथ जोड़ने को 'ब्रह्माजलि' कहते हैं ] // 180 / / / स्नातकं घातुकं जज्ञे जज्ञौ दान्तं कृतान्तवत् / वाचंयमस्य दृष्ट्यैव यमस्येव बिभाय सः / / 181 // स्नातकमिति / सः कलिः, स्नातकं समाप्तवेदं जनम् , 'स्नाताद्वेदसमासौ" इति कन्प्रत्ययः / धातुकं स्वस्य हन्तारम् , 'लषपत-' इत्यादिना उकन्प्रत्ययः / जज्ञे मेने, दान्तं तपाक्लेशसहं, तपस्विनमित्यर्थः / 'तपाक्लेशसहो दान्तः' इत्यमरः / कृतान्त. वत् यमतुल्यम , जज्ञौ बुबुधे, तथा वाचं यच्छतीति वाचंयमः मौनव्रती तस्य, 'वाचि यमो व्रते' इति खच्प्रत्ययः। 'वाचंयमपुरन्दरौ च' इति निपातनात् साधुः / दृष्टयैव दर्शनेनेव, यमस्येव शमनस्येव, बिभाय भीतवान् , भियो लिट् / सर्वत्रैषां तपःप्रभावस्य दुर्द्धर्षत्वात् भीतिरिति द्रष्टव्यम् / / 181 // 1. 'तदत्र-' इति पाठ उपेक्ष्यः, इति 'प्रकाश'कारः। 2. 'सातवेदसमाप्तौ' इत्युचितम् / यावादिगणे एतत्सूत्रस्यैव दर्शनात् / अत एवामरकोषव्याख्याने भानुजिदीक्षितः-'साताद्वेदसमाप्तौ' इति कन् इति मुकुटः, तन्न, उकवचनादर्शनात् , इत्याह 'स्नातक' शब्दस्य व्याख्यायाम् (अमर 21743) / तत्रव क्षीरस्वामिना च-'स्नानवेदसमाप्तौ' इति यावादिस्वारकन् , इत्युक्तम् / -/