________________ सप्तदशः सर्गः। 1123 तस्य होमाज्यगन्धेन नासा नाशमिवागमत | तत्रातत दृशौ नासौ क्रतुधूमकदर्थिते // 163 / / तस्येति / तत्र पुरे, होमाज्यगन्धेन होमसम्बन्धिघृतपरिमलेन, तस्य कले, नासा घ्राणेन्द्रियम् , नाशं विध्वस्तम् , अगमत् इव प्रापदिव, तथा असौ कलिः, ऋतुधूमेन, यज्ञधूमेन, कदर्थिते दूषिते, अन्धीभूते इत्यर्थः, दृशौ नेत्रे, नातत न अतनिष्ट, नोन्मीलयितुं शक्त इत्यर्थः, हव्यगन्धयज्ञधूमाघसहिष्णुतया इति भावः / तनोतेलुंङि तङ , 'तनादिभ्यस्तथासोः' इति सिचो लुक / पने-'अनुदात्तोपदेशइत्यादिना अनुनासिकलोषः // 163 // ___ उस नगरमें उस ( कलि) की नाक हवनके घृतके सुगन्धिसे नष्ट-सी ( मृतकल्प, अथवा-नष्ट ही ) हो गयी, और वह कलि यशधूमसे पीड़ित दोनों नेत्रों को भी नहीं खोला अर्थात् कुछ नहीं देख सका / [ हवनके घृतके गन्ध तथा यज्ञके धूमसे पापी कलि अतिशय व्यथित हुआ ] // 163 // अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले / अङ्गणे गृहिणामत्र खलेनानेन चस्खले // 164 // अतिथीनामिति / अत्र पुरे, अतिथीनां.गृहागतपान्थानाम् , पदाम्भोभिः चरणप्रक्षालनोदकैः, इमं कलिं प्रति, न तु धार्मिकान् प्रतीति भावः, अतिपिच्छिले सर्वदा जलात्वात् विजिले, अतिमहणे इत्यर्थः, पिच्छादित्वादिलच्प्रत्ययः / गृहिणां गृहस्थानाम्, अङ्गणे चत्वरे, खलेन दुर्जनेन, अनेन कलिना, चस्खले स्खलितम् , पतितमित्यर्थः, भावे लिट् // 164 // वहांपर ( उस नगर में ) अतिथियों ( के चरण धोने ) के जलसे इस (पापी कलि ) के प्रति अतिशय पिच्छिल (रपट-बिछिलाहटसे युक्त) गृहस्थों के आँगनमें दुष्ट कलि स्खलित हो गया। [ गृहस्थों के पवित्रतम आँगनमें नहीं प्रवेश कर सका ] // 164 / / पुटपाकमिव प्राप क्रतुशुष्ममहोष्मभिः / तत्प्रत्यङ्गमिवाकर्ति पूर्वोमिव्यजनानिलैः / / 165 / / पुटेति / क्रतुषु यज्ञेषु, शुष्मणाम् अग्नीनाम् , 'अग्निर्वैश्वानरो वह्निोतिहोत्रो धनञ्जयः / बर्हिः शुष्मा कृष्णवर्मा' इत्यमरः। महोष्मभिः प्रबलसन्तापैः, पुटपाकं निरुद्धमुखपात्रे अन्तर्धूमपाकमित्यर्थः / प्राप लेभे इवेत्युत्प्रेक्षा, कलिरिति शेषः, तथा पूर्तानां वापीतडागादीनाम्, ऊर्मयः तरङ्गा एव, व्यजनानि तालवृन्तानि, तेषाम् अनिलैः वायुभिः, तत्प्रत्यङ्गं तस्य कलेः अङ्गजातम् / वीप्सायामव्ययीभावः / अकर्ति इव छिन्नमिवेत्युत्प्रेक्षा। कृती छेदने इति धातोः कर्मणि लुङ // 165. // यशाग्निके तीव्र सन्तापोंसे मानो ( पाठा०-इस (कलि ) ने) पुटपाकको प्राप्त किया 1. 'पुटपाकमसौ' इति पाठान्तरम् /