________________ 1114 नैषधमहाकाव्यम् / गरवेति / हे कले ! निषधदेशान् गत्वा प्राप्य नलं भैमीमन्तरा नलभैम्योर्मध्येऽकस्माच्छीघ्र दुरितलक्षणकारणमन्तरेण वा त्वं न प्रवेक्ष्यसि / नलस्य पुण्यश्लोकस्वात् , भैम्याश्च पातिव्रत्यादिधर्मयुक्तत्वात्., तौ पराभवितुं न शक्नोषीत्यर्थः। इव-असंयुक्तं पूर्व विसन्धितया पृथक्कृतप्रकृतिप्रत्ययविभागं पश्चात्पठ्यमानं संहि. तया प्रयोगार्हम् / उच्चार्यमाणमिति यावत् / एवम्भूतं षण्णां चक्रं षण्णामिति शब्द. स्वरूपस्थवर्णवृन्दमन्तरा मध्ये डकारवत् / डकारो वर्णो यथाऽकस्माद्विधिमन्तरेण न प्रविशतीति साधोपमा। 'षष्' शब्दात् 'षट्चतुर्व्यश्च' इति नुटि तत्सहित आमि 'स्वादिष्वसर्वनामस्थाने' इति पूर्वपदस्य पदत्वात् 'झलां जशोऽन्ते' इति जश्त्वेन षकारस्य डकारे 'न पदान्तात्' इति निषेधस्य 'अनाम्नवति-' इति निषेधात् 'ष्टुना ष्टुः' इति ष्टुत्वेन नाम्न कारस्य णकारादेशे 'यरोऽनुनासिके-' इति डकारस्याप्यनुनासिकस्य व्यवस्थित विकल्पत्वादनुनासिकस्यात्र नित्यत्वेन णकारे जाते सर्वथापि न स्वेन रूपेण 'षण्णाम्' इति पदमध्ये डकारो यथा प्रवेशं लभते, तथा तयोर्मध्ये त्वमपीत्याशयः / अन्यथा विकल्पत्वात्पक्षे 'षड्णाम्' इति स्यात्तन्मा भूदि. त्यत्र व्यवस्थितविभाषाऽङ्गीकरणीया / षण्णां चेति चकारो भैमी चेति योज्यः / तथा च-क्रमेण परिपाट्यां संयुक्तं षण्णामिति कर्मभूतं शब्दस्वरूपमन्तरा डकारो यथा न प्रविशति / असंयुक्तावस्थायां यद्यपि स्वेन रूपेणावस्थानं वर्तते, तथापि संयुक्तावस्थायां नास्तीत्यर्थ इति वा / षण्णामित्यत्र प्रकृतिप्रत्ययदशायामकस्मादागन्तुकादेशरूपतया डकारो यथा प्रविशति, तथा त्वं न प्रविशसि इति वैधोपमया वा व्याख्येयम् / 'कारवत्' इति पाठे 'वाऽवसाने' इत्यवसान इव चवविकल्पात् , खरश्चाभावात् षट , षटस्वित्यादिवत् षण्णामित्यत्र खरवसानयोरभावाहकारो यथा न प्रविशतीति साधोपमेव / क्षेपकोऽयम् / नलं भैमीम्, 'अन्तराऽन्तरेण-' इति द्वितीया // 3 // तुम (निषध देशको ) जाकर भी नल तथा दमयन्तीके मध्यमें एकाएक ) अतिशीघ्र, या उनके अशुमोदयके विना, पक्षा०-विना विकृतरूप धारण किये ) उस प्रकार नहीं प्रवेश पावोगे, जिस प्रकार ( पहले ) असंयुक्त ( तथा वादमें संहिता कार्य अर्थात् सिद्धि करके ) पढे जाते हुए 'षण्णाम्' पदके अक्षर-समुदायके मध्य में ( आदेश रूप विकार होनेके विना) डकार नहीं प्रवेश पाता है। [ जिस प्रकार पहले (षष् न् आम् , या षड् न् आम् इस असंयुक्तावस्थामें ) रहनेवाला डकार विना 'ण' काररूप विकार प्राप्त किये सिद्ध हुए 'षण्णाम् प्रयोगमें प्रवेश नहीं पाता अर्थात् 'षड्णाम्' ऐसा रूप नहीं बनता, उसी प्रकार नल तथा दमयन्तीके बीचमें तम भी विना विकृत हुए (रूपान्तर धारण किये) प्रवेश नहीं पा सकोगे। अथवा-'षण्णाम्' प्रयोगके मध्यमें जिस प्रकार 'ड'कार 'ण' आदेशरूप विकारको पाकर प्रवेश कर जाता है, उस प्रकार तुम नल तथा दमयन्तीके मध्यमें प्रवेश नहीं कर सकोगे, इस प्रकार वैधम्योपमासे अर्थ करना चाहिये ] // 1 //