________________ 738 नैषधमहाकाव्यम् / राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं ? कृतं लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पौरलम् | कत्तुं सर्वपरच्छिदः किमपि नो शक्यं परार्द्धन वा . तत् सङ्खयापगमं विनाऽस्ति न गतिः काचिद्तैतद्विषाम् / / 58 / / राज्ञामिति / शतघ्नीं नाम हेतिम् आयुधं, 'शतघ्नी तु चतुःशत्या लौहकण्टकसञ्चिता' इति यादवः, शतं हन्तीति शतघ्नीति च गम्यते 'अमनुष्यकत के च' इति ठकप्रत्यये ङीप् / कलयतो धारणतः, अस्य नृपतेः, राज्ञां शतेन किम् ? न काऽपि क्षतिरित्यर्थः; शतमारणसमर्थमत्रं गृह्णतोऽस्य शतसङ्ख्यकैः शत्रुभिर्न किमपि कत्त शक्यते इति भावः / लक्षभिदो लक्षभेदिनः, लक्ष लक्षसङ्ख्या, तद्विशिष्टशत्रुहन्तुश्च, 'लक्षं शरव्ये सङ्ख्यायाम्' इति च विश्वः, कुत्रचिदप्यप्रतिहतसायकस्य अस्य इत्यर्थः, राज्ञां लक्षः कृतम् अलम्; कृतम् इति शब्दः अलमित्यर्थेऽव्ययम् / दृशा दृष्टय व, पद्मानि अब्जानि, तत्सङ्ख्यकशत्रूश्च; 'पद्मं स्यात् पन्नगे व्यूहे निधौ सङ्ख्यान्तरेऽम्बुजे' इति विश्वः, जयतोऽस्य राज्ञः पझैः पद्मसङ्ख्यकैः शत्रुभिः, अलम्; किं बहुना ? सर्वपरच्छिदः समस्तशत्रुच्छिदोऽस्य राज्ञः, राज्ञां परार्द्धन वा तत्सङ्ख्यकराजभिर्वा, परे. षाम् अरीणाम् अर्द्धन वा, किमपि कत्त नो शक्यम् तत् तस्मात्, बत खेदे, एतद्विषाम् अस्य शत्रूणां, सङ्ख्याया अपगमम् अपगतसङ्ख्यत्वम् असङ्ख्यत्वमिति यावत्, अथ च सङ्ख्यात् युद्धात् , अपगमम् अवसरणं, विना काचित् गति स्ति; 'सङ्ख्य समिति सङ्ख्या स्यादेकत्वादिविचारयोः' इति मेदिनी, अत्रैव द्विषद्गतिमत्वस्य सङ्ख्यापगमतदपगमयोः उभयोः प्राप्तस्य पूर्वत्र निषेधस्य उत्तरत्र नियमनात् परि. सङ्ख्या तथा च सूत्रम्-'एकस्य अनेकप्राप्तावेकत्र नियमनं परिसङ्ख्या' इति // 58 // 'शतघ्नी' नामक ( तोप, पक्षा०-सौ व्यक्तियों को मारनेवाला) शस्त्र-विशेष धारण करते हुए इस राजके सौ राजाओंसे क्या ? ( सौ शस्त्र इसका क्या कर सकते हैं अर्थात् कुछ नहीं)। लक्षभेदी (निशाना मारने वाले, पक्षा०-लाख व्यक्तियों को मारनेवाले) इसके लाख शत्रु भी व्यर्थ हैं / दृष्टि ( नेत्र, पक्षा०-देखने ) से ही पद्मों ( कमलों, पक्षा०'पद्म' परिमित संख्यावालों ) को जीतते हुए इसके 'पद्म' परिमित शत्रु भी व्यर्थ हैं। तथा सम्पूर्ण ( पक्षा०-अखण्ड ) को छिन्न करनेवाले इसका परार्द्ध ( शत्रुका आधा भाग, पक्षा०'परार्द्ध' ( चरम ) संख्या ) परिमित भी शत्रु कुछ नहीं कर सकते, इस कारण सङ्ख्या अर्थात् गणना ( गत, लक्ष, पद्म, परार्द्ध आदि पक्षा०-सङ्ख्य अर्थात् युद्ध ) के छोड़ने के विना इसके शत्रुओंकी कोई गति नहीं है। [ उक्त कारणोंसे इस राजाके सौ, लाख, पद्म और परार्द्ध-संख्यक शत्रु भी कुछ नहीं कर सकते; अत एव सङ्ख्यात्याग ( पक्षा०-युद्धत्याग ) के अतिरिक्त कोई उपाय उनके बचने का नहीं है ] // 58 //