________________ सप्तदशः सर्गः / 1081 नीतानां यमदूतेन नामभ्रान्तेरुपागतौ / श्रद्धत्से संवदन्तीं न परलोककथां कथम् ? // 60 // __'को हि वेत्ताऽस्त्यमुष्मिन् ( 1761) इत्यादेरुत्तरमाह-नीतानामिति / यमदूतेन यमकिङ्करेण, नाम्ना धर्मराजः यन्नामकपुरुषाणां, स्थूलशरीरात् लिङ्गशरीरमाकष्टु'दूतं प्रेषयामास अन्येषामपि केषाञ्चित् तान्येव नामानि इति नामसाम्येन, भ्रान्तः भ्रमात् हेतोः, नीतानां यमसन्निधिं प्रापितानाम् , आनेतन्यपुरुषेभ्यः अन्येषां जनानामिति भावः। उपागतो पुनर्मर्त्यलोकप्रत्यागमनविषये, एतेषां नामसहशान् यान आनेतुं त्वं प्रेषितः एते ते न भवन्ति, अत एतान् मर्त्यलोकं नीत्वा स्व-स्वस्थूलशरीरे प्रवेशयेति यमाज्ञया सद्यः एव पुनः स्वदेहसक्रान्तिविषयेइत्यर्थः / संवदन्ती श्रतिस्मृतिपुराणादिषु श्रुतस्वर्गनरकादिकथया सह समानार्थीभवन्ती, परलोककथां यमलोकात् प्रत्यावृत्तपुरुषोक्तां स्वर्गनरकादेरस्तित्ववार्ता, कथं न श्रद्धत्से ? न प्रत्येषि ? अतस्ताहशवाक्यस्य सत्यत्वादेव परलोकमस्त्येवेति भावः // (अब 'को हि वेत्ताऽस्त्यमुष्मिन् ( 1761)' इत्यादिका उत्तर देते हैं-) यमदूतके द्वारा नामके भ्रमसे यमके पास पहुंचाये गये लोगोंका ( वेद-पुराणादि कथनके साथ) संवाद करती ( मिलती-जुलती) हुई परलोककी कथा ( चर्चा ) का क्यों नहीं विश्वास करते हो ? [ कभी-कभी यह देखा जाता है कि कोई व्यक्ति मर जाता है नाड़ी आदिकी परीक्षा कुशलतम वैद्यों-डाक्टरों द्वारा करनेसे उसके मरनेका निश्चय किये जानेपर भी वह व्यक्ति कुछ समय बाद जीवित हो जाता है और पूछनेपर या स्वयं ही वह कहने लगता है कि मुझे यमदूत यमपुरीमें ले गये थे, किन्तु यमराजने कहा कि 'मैंने इस नामसे दूसरे व्यक्तिको लानेके लिए कहा था, इसे नहीं; अत एव इसको पुनः पूर्व शरीरमें प्रविष्ट कराकर मिलता है वैसा ही उसे बतलाता है,' अत एव परलोकके होने में तुम लोगोंको विश्वास करना चाहिये ] // 90 // जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् | किमात्थ रे ! किमात्थेदमस्मदग्रे निरर्गलम् ? // 11 // जज्वालेति / अथ ज्वलनः अग्निः, क्रोधात् कोपात् , जज्वाल दिदोपे, तथा अमुं चार्वाकम्, आक्षिपन् परुषवाक्यैरधिक्षिपन् , आचख्ये च जगाद च, रे इति तुच्छसम्बोधने; रे चार्वाक ! किमात्थ ? अस्मदने मम पुरतः, निरर्गलम् अप्रतिबन्धम् , अबाधं यथा तथेस्यर्थः / इदम् उक्तरूपं वेदादिविरुद्धमित्यर्थः। किम् आत्थ ? किं प्रलपसि ! इत्यर्थः / कोपे द्विरुतिः // 9 // 1. एवंविधा घटना प्रायः पञ्चविंशतिवर्षेभ्यः पूर्वमस्मपितृव्यपरन्या सह घटिताऽऽसीदिति मे परलोकास्तित्वे नितरां प्रत्ययः / (अनुवादका)