________________ सप्तदशः सर्गः। 1076 जलेति / किञ्च, वेदवेदिते श्रुतिप्रतिपादिते, जलानलपरीक्षादौ जलाग्न्याविदिष्य. शोधनादौ, आदिशब्दात् प्रत्यक्षफलक-कारीर्यादिसंग्रहः / संवादः शुद्धाशुद्धवृष्टयादि. दर्शनरूपः व्यापार इत्यर्थः / ते तव, धियं मतिं, गलहस्तेन तुल्यं गलहस्तितं गले हस्तं दत्वा बलाद् दूरीकृतम् , नास्तिक्यं परलोको नास्तीत्यादिप्रकारकं ज्ञानं यस्याः ताम् आस्तिक्यबुद्धिमित्यर्थः / न कुरुते ! धिक अतो निन्दामीत्यर्थः / त्वामिति शेषः। 'धिनिर्भर्त्सननिन्दयोः' इत्यमरः / वेदबोधितजलदिन्ये तु पापाभिशस्तः पुरुषः जले निमजता पुरुषान्तरेण आकर्णपूर्णधनुर्मुक्तशरप्रत्यानयनमपेक्षमाणः सन् यदि अप्रत्यानीतशरो जलादुन्मजति तदा सः अशुद्धः, प्रत्यानीतशरो यदि उन्मजति तदा शुद्ध एव, इत्थमेव च तत्र प्रत्यक्षं दृश्यते इत्येव संवादः / अग्निदिव्येऽपि तप्तलोहादौ दाहादाहाभ्याम् अशुद्धिशुद्धी प्रत्यक्षदृश्ये / एवम् अनावृष्टयादौ कारीदियागे कृते वृष्टिदृश्यते इत्यादिकप्रत्यक्षफलकवेदबोधितकार्यदर्शनात् तव नास्तिक्यबुद्धिर्नापया. तीति धिक इति भावः // 87 // वेदप्रतिपादित जल तथा अग्निसे ( की गयी दिव्य ) परीक्षा आदि ( 'आदि' शब्दसे 'कारीर्यादि' यशका संग्रह है ) में संवाद (शुद्ध-अशुद्धकी निर्णयरूप सङ्गति ) तुम्हारी बुद्धिको अर्द्धचन्द्र ( गर्दनियां ) देकर निकाली गयी नास्तिकतावाली अर्थात् बलात्कारपूर्वक नास्तिकतासे शून्य नहीं करता है, ( अतएव ऐसा संवाद होनेपर भी महामूर्खता करनेवाले तुमको ) धिक्कार है। [ अथवा-तुम्हारी निन्दित वुद्धिको बलात्कारपूर्वक नास्तिकतासे शून्य नहीं करता ? अर्थात् करता ही है अथवा-हे कु-रुते ( कुत्सित शब्दवाले अर्थात् मिन्दित वाक्य कहनेवाले ) / तथा हे अ-नते ( नम्रता-हीन ) ! वेदप्रतिपादित जल-अग्निपरीक्षादिमें संवाद है, अत एव नास्तिकताको गलासे लिपटायी (हठपूर्वक ग्रहणकी ) हुई (नास्तिकतायुक्त ) बुद्धिको धिक्कार है ] // 87 / / सत्येव पतियोगादौ गर्भादेरध्रवोदयात्।। आक्षिप्तं नास्तिकाः ! कर्म न किं मर्म भिनत्ति वः ? // 88 / / सतीति / नास्तिकाः ! हे नास्तिपरलोकाः ! 'अस्ति नास्ति दिष्टं मतिः' इति ठक्। पतियोगादौ भर्तृसहवासादिकारणसाकल्ये, सति एवं विद्यमानेऽपि, एव शब्दोऽत्र अप्यर्थे बोध्यः / आदिशब्दान्मेघोदयादिप्रत्यक्षीभूतकारणकलापे सत्यपि इति भावः / गर्भादेः अध्रवोदयात् अनिश्चितोत्पत्तिकस्वात् , कदाचित्कोत्पन्नगर्भादि. कार्यादित्यर्थः। आदिशब्दात् वृष्टयादिकार्यसंग्रहः। आक्षिप्तम् अर्थापत्तिसिद्धम् , अर्थापत्तिप्रमाणसिद्धं स्त्रीपुरुषसहवासादिरूपदृष्टकारणकलापसद्भावेऽपि गर्भोदयादि. रूपकार्यस्य कादाचित्कावं धर्माधर्मरूपादृष्टकारणं विनाऽनुपपन्नम् इत्यनुपपत्तिज्ञानरूपावर्थापत्तिप्रमाणात् प्रमितमित्यर्थः। कर्म धर्माधर्मरूपजन्मान्तरीयादृष्टं, वः युष्माकं नास्तिकानां, मर्म हृदयं, हृद्गतसंशयमिति यावत् / न भिनत्ति किम् ! न छिनत्ति किम् ? एतेनैव अदृष्टमस्तीति बोद्धव्यम् इति भावः // 8 //