________________ 734 नैषधमहाकाव्यम् / विलोचनेति / विलोचने एव इन्दीबरे नीलोत्पले, तयोर्मध्ये वासेन स्थित्या, वासितैः सुरभितैः, नयननीलिम्ना नीलीकृतैरित्यर्थः, सितैः स्वभावात् अवदातैः, नीलश्वेतकान्तिविशिष्टैरिति यावत् , अपाङ्गाध्वगाया नेत्रप्रान्तरूपमार्गवर्तिन्याः, चन्द्रिकायाः नेत्रमध्यस्थनीलगोलकस्य, अञ्चलैः प्रान्तभागैः, कटाक्षरिति यावत् , करणैः रुचः कान्तः, आलयम् आकरं, मालयं मलयदेशीयं, क्षितिक्षितं क्षितीशं, तदाख्यदेशस्य राजानमित्यर्थः, क्षितिं क्षिणोतीति तितिक्षित् क्षितीशः क्षिधातोरैश्वयोर्थात् किप , निभात् वस्त्वन्तरदर्शनव्याजात् , अपां लज्जाम् , अपाकृत्य त्यक्त्वा, निभालय विलोकय, निभालय इत्यस्य चौरादिकात्मनेपदिभलधातोः रूपत्वात् परस्मैपदं चिन्तनीयम् ; अथवा निभालः निभालनं तद्वान् निभालवान् तादृशं कुरु 'तत् करोति-' इति णिचि मतुपो लोपेन साधनीयम् // 53 // नेत्ररूपी नीलकमलमें निवास करनेसे वासित (नील वर्ण किये गये ) तथा ( स्वभावतः) श्वेत नेत्रप्रान्तमार्गगामी चन्द्रिकाप्रान्तों अर्थात् नीलश्वेत कटाक्षोंसे कान्तिके आकर 'मालय' नामक ( अथवा-मा = लक्ष्मीके आलय, अथवा-'मलय' देशके राजा, अथवा-म = शिवजी हैं निवास जिसका ऐसे अर्थात् चन्द्ररूप ) राजाको लज्जा दूरकर व्याज ( दूसरी वस्तुके देखने के बहाने ) से देखो। [ यह राजा 'मालय' नामक है, (या-शिवका निवास चन्द्ररूप ही अर्थात् अतिसुन्दर है, या लक्ष्मीका आलय है, या-'मलय' देशका है ), इसे यदि देखने में लज्जा आती है तो दूसरी वस्तुको देखनेके बहानेसे इसे देखो क्योंकि उस प्रकार देखनेमें लज्जा नहीं होगी और कान्तिके आकर इसे तुम अच्छी तरह देखकर इसके वरणके विषयमें यथावत् निर्णय कर सकोगी, अतः तुम दूसरी वस्तुको देखने के बहानेसे नीलश्वेत कटाक्षोंसे इस राजाको निस्सङ्कोच होकर देखो ] / / 53 // इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं मुधाऽविशत् / न वेत्ति यत्त्रातुमितः कृतस्मयो न दुगया शैलभुवाऽपि शक्यते // 54 // इममिति / अरिः एतच्छत्रुः, रणात् समरात भग्नः सन् , परम् अरिं श्रेष्ठं वा, इमं नृपं, परित्यज्य शरणं न प्राप्य, मुधा वृथा, स्वं स्वकीयं, शरणं गृहमेव, शरणं रक्षकम् , अविशत् प्रविष्टः; शरणस्य द्विरावृत्त्या सम्बन्धः कथं वृथा ? इति तदाह, यत् यस्मात् , कृतस्मयः कृताहङ्कारः, सोऽरिरिति शेषः, दुर्गया दुर्गमया, शैलभुवा शैलप्रदेशेन, गिरिदुर्गेणापीत्यर्थः, अथ च शैलभुवा पर्वतकन्यया, दुर्गया दुर्गादे. व्याऽपि, पार्वत्याऽपि इत्यर्थः, इतोऽस्माद्राज्ञः, त्रातुं न शक्यते, किं पुनः स्वगृहण अन्येन वा पुरुषेणेत्यपिशब्दार्थः, इति न वेत्ति; यो गिरिदुर्गप्रविष्टमपि शत्रुहन्तुं शक्नोति स स्वगृहप्रविष्टमरिं कथं न हन्तु इति स्वप्राणरक्षार्थं स्वगृहप्रवेशो व्यर्थ इति भावः॥५४॥ युद्धसे भगा हुआ शत्रु श्रेष्ठ ( या-शत्रुरूप.) इसे छोड़कर अपने ही घरमें (या-अपने ही बड़े घर में, या-अपने ही रक्षकके यहाँ, या अपने ही दूसरे रक्षकके यहाँ या-अपने