________________ सप्तदशः सर्गः। 1026 पुनः पुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु / नाकनाथरथालम्बि बभूवाभरणं धनुः / / 7 / / पुनः पुनरिति / नाकनाथरथालम्बि इन्द्रस्यन्दनस्थं, धनुः चापः, पथि गगन. मार्गे, पुनः पुनः वारं वारं, मिलन्तोषु संसज्यमानासु, पाथोदानां मेघानां, पङ्क्तिषु श्रेणीषु, आभरणं भुषणं, बभूव सञ्जज्ञे यद्यत् मेघवृन्दं रथेन सङ्गच्छते धनुः तस्य तस्य आभरणं बभूव इत्यर्थः / पूर्व कृत्रिमेन्द्रधनुर्योगः अद्य मुख्येन्द्रधनुर्योगो लब्धः इति भावः। अत्र ताशासम्बन्धे सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः॥७॥ स्वर्गाधीश (इन्द्र ) के रथपर स्थित धनुष (इन्द्रधनुष ) मार्ग ( आकाश ) में बारबार सम्बद्ध होती हुई मेघपतियोंमें उन ( मेघपतियों, अथवा-उस इन्द्ररथ ) का क्षणमात्र भूषण बन गया। [ पहले मेघपतियोंका कृत्रिम इन्द्रधनुषसे सम्बन्ध होता था, किन्तु इस समय वास्तविक इन्द्रधनुषसे सम्बन्ध हुआ, अतएव वे शोभने लगी ] // 7 // जले जलदजालानां वञिवनानुबिम्बनैः। जाने तत्कालजैस्तेषां जाताऽशनिसनाथता // 8 // जले इति / जलदजालानां मेघवृन्दानां, जले वारिणि, तत्कालजैः इन्द्रादिगमनकालजातैः, वज्रिवज्रस्य इन्द्रकुलिशस्य, अनुबिम्बनः, प्रतिबिम्बैः, तेषां जलदजालानाम् , अशनिसनाथता वज्रसाहित्य, वज्रयुक्तस्वमित्यर्थः / जाता सम्भूता, जाने इति मन्ये, इत्युत्प्रेक्षायाम् // 8 // मेघ-समूहके जलमें उस (इन्द्र-गमन) समयमें उत्पन्न इन्द्रके वज्रके प्रतिबिम्बोसे उन ( मेघ-समूहों ) की वज्रसनाथता हुई अर्थात् तभीसे मेघ वज्रयुक्त हुए ऐसा मैं मानता हूं // 8 // स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् / चक्रे दण्डभृतश्वम्बन दण्डश्चण्डरुचिं कचित् / / 6 / / स्फुटमिति / क्वचित् कुत्रचित् प्रदेशे, दण्डभृतः यमस्य, दण्डः अस्त्रविशेषः, चण्डरुचिं सूर्य, चुम्बन सूर्यमण्डलं स्पृशन् इत्यर्थः / सावर्णिः सूर्यपुत्रः अष्टमो मनुः, तद्वंश्यानां मनुवंशजानां, महीभुजां राज्ञां, कुलस्य वंशस्य, छत्रम् आतपत्रं, चक्रे विदधे / स्फुटमित्युस्प्रेक्षायाम् / अधःप्रदेशे दण्डसंयोगात् अर्कमण्डलंतवंश्यराजकुलस्य उद्धृतं छत्रमिव बभौ इत्यर्थः / इन्द्रादया क्रमात् मेघपथमतीव्य सूर्यमण्डलं प्राप्ता इति तात्पर्यम् // 9 // ____कीपर ( आकाशके किसी प्रदेशमें ) सूर्यको स्पर्श करता हुआ दण्डधारी ( यमराज ) का दण्ड उस (सूर्य) को सूर्यवंशी राजाओं के कुलचन (कुरुक्रमामत श्वेतच्छत्ररूप चिह्न, पक्षा०-गुलमेष्ठ )- कर दिया। [सूबण्डल मीचे स्थित यमरामा दण्ड जब देदीप्यमान स्वतापन गोषवार सर्व स्पर्क रखा था तो वह इण्डष्ट-श्वेतच्छा-सा