________________ (OP द्वादशः सर्गः। पतत्येतत्तेजोहुतभुजि कदाचिद् यदि तदा पतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः / यशोऽमुष्येवोपार्जयितुमसमर्थन विधिना कथञ्चित् क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः // 46 / / पततीति / पतङ्गः सूर्यः, एतस्य राज्ञः, तेजोहुतभुजि प्रतापाग्नौ, कदाचित् पतति यदि तदा अङ्गीकृततमो भृशं स्वीकृतः, पतङ्गस्य शलभस्य, आपदुदयः देहदाहात्मकविपत्प्राप्तिः येन तथाभूतः स्यात् शलभताम् इयादित्यर्थः, 'पतङ्गः शलभे साधी मार्जारेऽर्के खगेश्वरे' इति वैजयन्ती, किञ्च अमुष्य राज्ञः, यश उपार्जयितुम् असमर्थनेव विधिना ब्रह्मणा, कथञ्चिदपि, न तु सम्यगिति भावः, तस्य यशसः, प्रतिनिधिः प्रतिरूपकः, क्षीराम्भोनिधिः क्षीरसमुद्रः, कृतः, क्षीरसमुद्रस्तदनुकल्पत्वेन सम्पादित इत्यर्थः; मख्यापेक्षया प्रतिनिधिवस्तुनो न्यूनत्वेन न तु तादृगयशो लब्धमिति भावः। सूर्यादधिकप्रतापः विधेरपि अधिकयशाश्चेति निष्कर्षः // 46 // सूर्य यदि कभी इस ( नेपालनरेश ) के तेजोरूप अग्निमें गिर जाय तो फतिङ्गों के देहदाहरूप आपत्तिको प्राप्त कर ले तथा इसके यशको किसी प्रकार प्राप्त करने में असमर्थ ब्रह्माने उस (यश) का प्रतिनिधि क्षीरसमुद्रको बनाया है ( अथवा-इसके यशको प्राप्त करने में असमर्थ ब्रह्माने उसका प्रतिनिधि क्षीरसमुद्रको किसी प्रकार अर्थात् अतिशय कठिनतासे बनाया है ) ? [ अग्निमें गिरे हुए फतिङ्गों के समान इस राजाके तेजमें गिरे हुए सूर्यका पता भी नहीं चले अर्थात् सूर्य इसके तेजसे अत्यन्त तुच्छ है और इसका यश दुग्धसे भी स्वच्छ है, अथ च एकद्वीपव्यापी क्षीरसमुद्रसे सर्वद्वीपव्यापी इसका यश बहुत बड़ा है। इस नेपालनरेशके प्तताप तथा यश अत्यन्त महान् है, अत एव इसे वरण करो] // 46 // यावत् पौलस्त्यवास्तूभवदुभयहरिल्लोमरेखोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः / यावत् प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रा वद्री सन्ध्यापताकारुचिरचितशिखाशोणशोभावुभौ च // 47 // यावदिति / पौलस्त्ययोर्विभीषणवैश्रवणयोः, वास्तूभवन्त्यो वेश्मभूमिभूते, गृहभूते इत्यर्थः, 'वेश्मभूर्वास्तुरस्त्रियाम्' इत्यमरः, उभे च ते हरितौ उभयहरितौ दक्षिणोत्तरदेशावित्यर्थः, 'उभादुदात्तो नित्यम्' इत्यत्र 'पृथग योगकरणादेवायजादेशस्य नित्यत्वे सिद्ध पुनर्नित्यग्रहणं वृत्तिविषये उभशब्दस्थाने उभयशब्दप्रयोगनियमज्ञापनार्थम्' इति कैयटः, तयोर्यथासङ्ख्यं श्यामत्वात् शुभ्रत्वाच्च लोमरेखा लोमराजिः, उत्तरीयञ्च ते सन्तौ सेतुप्रालेयशैली यावत् यावदूरं, स्थिताविति शेषः, किञ्च प्राक्प्रत्यगाशे प्राचीप्रतीच्यौ दिशौ, 'स्त्रियाः पुंवत्-' इत्यादिना पंवद्भावः