________________ 730 नैषधमहाकाव्यम् / तयोः परिवृढौ प्रभू , इन्द्रावरुणौ इति यावत् , 'प्रभौ परिवृढः' इति निपातः, तयोनगरयोरारम्भणे यौ स्तभौ मूलस्तम्भौ, तयोरिव मुद्रा सन्निवेशो ययोस्तौ स्तम्भसदृशाकारौ इत्यर्थः, सन्ध्ययोरेव सायं-प्रातःसन्ध्यारूपयोःद्वयोः, पताकयोः रुचिभिः रक्तभाभिः, रचितयोः, शिखयोरग्रयोः, शोणशोभा रक्तशोभा ययोः तावुभौ अद्री उदयास्तशैलौ, यावत् यावत्पर्यन्तं, तिष्ठतः इति शेषः, तावत्पर्यन्तम् एतस्य नरपतेः कीर्तिश्चरति चतुर्दिगन्तविश्रान्तकीतिरयमित्यर्थः // 47 // __पुलस्त्य-सन्तान ( रावण तथा कुबेर ) के गृह बनती हुई दोनों (क्रमशः दक्षिण तथा उत्तर ) दिशाओंके ( क्रमशः श्याम तथा श्वेत वर्ण होनेसे ) रोमावलि और दुपट्टारूप रामेश्वर पुल और हिमालय पर्वत जहां तक हैं; तथा पूर्व और पश्चिम दिशाओंके स्वामी (क्रमशः इन्द्र तथा वरुण ) के नगरके आरम्भमें खम्भेके आकृतिवाले अर्थात् खम्भेके समान एवं सन्ध्या ( क्रमशः प्रातःकाल तथा सायंकालकी सन्ध्या ) रूपी पताकाकी कान्तिसे रचित अग्रभागमें रक्तवर्णवाले दोनों पर्वत (क्रमशः उदयाचल तथा अस्ताचल ) जहां तक हैं; वहां तक इस ( नेपालनरेश) की कीर्ति विचरण करती है। [ हिमालयसे रामेश्वर तक तथा उदयाचलसे अस्ताचल तक अर्थात् चारों दिशाओंमें इस राजाकी कीर्ति व्याप्त हो रही है ] // 47 // युद्ध्वा चाभिमुखं रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः / छिन्नं वाऽवनतीभवन्निजभियः खिन्नं भरेणाथवा राज्ञाऽनेन हठाद्विलोठितमभूद् भूमावरीणां शिरः // 48 // युद्ध्वेति / अदसीयस्य अमुष्यायम् अदसीयं तस्यामुष्य सम्बन्धिन इत्यर्थः, अभिमुखं मुखं प्राम्भम् , अभि लक्षीकृत्य इत्यर्थः, रणस्याभिमुखं युद्धप्रारम्भे, वाणावलीः शरसमूहान् , उन्मुच्य युद्धार्थ निःक्षिप्य, युद्ध्वा युद्धं कृत्वा, निपततां निहतानां वा अथवा, अन्तः अन्तःकरणे, स्वस्य आत्मनः, परस्य शत्रोश्च, अन्तरं न्यूनाधिकतया पार्थक्यं, बुद्ध्वा ज्ञात्वा, अदसीयस्य चरणस्येवाभिमुखं बाणावलीरुन्मुच्य त्यक्त्वा, निपततां निरायुधीभूय एतच्चरणसमीपे नम्रीभवतामित्यर्थः, अरीणां शत्रणां, छिन्नं बाणैः कर्तितं सत् , वा अवनतीभवत् भूमौ पतितं सदित्यर्थः, अथवा निजभियः भरेण स्वीयभयातिशयेन, खिन्नं सत् अवनतीभवत् नम्रीभवत् , शिरो मस्तकम् , अनेन राज्ञा हठात् बलात्कारेण, भूमौ विलोठितं पुनः पुनः परावर्तितम् , अभूत्। एतस्य राज्ञः शत्रवो यदि युध्यन्ते तदा नियन्ते एव, अथवा ये शत्रवः विवेचकाः भीरवश्च ते एनमेव शरणं गच्छन्ति तेषां नान्या गतिरिति भावः॥ ___ इस ( नेपाल नरेश ) के युद्ध के सम्मुख लड़कर अपने तथा शत्रु ( इस राजा) के अन्तर ( भेद-न्यूनाधिक वल) को जानकर बाण-समूहों को छोड़कर अर्थात् बाणसमूहोंसे