________________ 1014 नैषधमहाकाव्यम् / सभिक्ष उः' इति उप्रत्ययः, मधुपिपासादित्वात् द्वितीयासमासः। हसन् तस्य रत्नज्ञा. नाभावात् हास्यं कुर्वन् , तयोः कृत्रिमाकृत्रिमयोः, द्वयम् उभयमेव, ददौ अर्पया. मास / तत्र कृत्रिमं विनोदाय ददौ अन्यदौचित्यादिति भावः / / 110 // ___विदर्भनरेश ( भीम या 'दम' ) ने सुन्दर तथा अतिशय सुन्दर झूठे तथा सच्चे अर्थात् नलकी तथा असली दो रत्नसमूहोंमें-से 'एक स्वयं ( जो तुम्हें पसन्द आवे, उसे ) ले लो' ऐसा इन ( बरातियों ) में कहकर झूठे अर्थात् नकली ( रत्न ) को ग्रहण करनेके इच्छुक ( बराती आदमी ) के लिए हँसते हुए, उन दोनों रत्नोंको दे दिया। [ पहले 'इन दोनों रत्नोमें जो पसन्द हो, उसे तुम स्वयं ले लो' ऐसा विदर्भराजके कहनेपर उनके तारतम्यको नहीं पहचाननेवाले बरातीने अधिक चमकते हुए नकली रत्नको लेना चाहा, यह देख उसकी रत्नज्ञता नहीं होनेसे उसपर हंसते हुए विदर्भनरेशने उन दोनों रत्नोंको दे दिया। उनमें झूठे (नकली) रत्नको परिहाससे तथा सच्चे ( असली ) रत्नको उचित होनेसे दिया / इति द्विकृत्वः शुचिमिष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः / द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि / / 111 / / इतोति / इति पूर्वोक्तप्रकारेण, द्विकृत्वः द्विवारं, दिवा रात्रौ च इत्यर्थः, 'सङ्ख्याः याः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुच् / शुचि विशुद्धं, मिष्टं मधुरं, भुञ्जते अश्नन्ति इति तेषां विशुद्धलड्डुकादिभोजिनां, तथा निशि रात्री, द्विः द्विरावृत्ताः, अष्टसंवत्सराः यासां तासां षोडशवर्षाणां, वारसुन्दरीणां गणिकानां, परीष्टिभिः परिचर्याभिः, तस्कत कशुश्रूषाभिरित्यर्थः, 'परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम्' इति मेदिनी। तुष्टिं प्रीतिम् , उपेयुषां प्राप्नुवतां, तेषां नलानुगानां, कतिचित् दिनानि कतिपयानि अहानि, मुदा हर्षेण, ययुः अतिवाहितानि बभूवुः // ___ इस प्रकार ( 16 / 49-190 ) दो बार अर्थात् दिन तथा रातमें विशुद्ध तथा मधुर भोजन करते हुए और रातमें षोडशपर्षीया वाराङ्गनाओंकी परिचर्या ( सेवा-सत्कार, अथवा-आलिङ्गन-चुम्बनादि सेवाकार्य ) से सन्तुष्ट उन (बरातियों ) के कई (5-6 ) दिन आनन्दसे बीत गये // 111 // उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गी परिणीय तां नलः / अथ प्रतस्थे निषधान सहानया रथेन वाष्र्णेयगृहीतरश्मिना / / 112 / / उवासेति / नलः कृशाङ्गी तन्वङ्गी, तां दमयन्ती, परिणीय उदूह्य, वैदर्भगृहेषु भीमभवनेषु, पञ्चषाः पञ्च षट् वा, 'सङ्ख्ययाऽव्यया-' इत्यादिना बहुव्रीहिसमासे कृते 'बहुव्रीहौ सङ्खयेये डच' इति डच्समासान्तः। निशाः रात्रीः / अत्यन्तसंयोगे द्वितीया उवास तस्थौ / अय सप्तमाहे, अनया भम्या सह, वृष्णेः अपत्यं पुमान् वार्ष्णेयः तन्नामकनलसारथिः 'इतश्चानिज्' इति ढक् / तेन गृहीताः धृताः, रश्मयः