SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः। 1015 प्रग्रहाः यस्य तादृशेन 'किरणप्रग्रहौ रश्मी' इत्यमरः। रथेन निषधान् तदाख्यनिजजनपदान् , प्रतस्थे जगाम // 112 // नलने कृशाङ्गी ( दमयन्ती ) के साथ विवाहकर विदर्भनरेशः ( राजा भीम ) के महलोंमें पांच-छः रात वास किया, इसके बाद उस ( दमयन्ती ) के साथ वार्ष्णेय नामक सारथिके द्वारा पकड़े गये रास (घोड़ोंके लगामकी डोरी) वाले रथसे निषध देश ( अपने राज्य ) को चले / / 112 / / परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् / रथे स भमी स्वयमध्यरूरुहन्न तत् किलाश्लिक्षदिमां जनेक्षितः / / 113 / / __परस्येति / परस्य मदितरस्य लोकस्य, इमां पतिव्रतां भैमी, स्पष्टं परामष्टम्, अधिक्रिया अधिकारः, न, अस्तीति शेषः। प्रिया भमी, शिशुः, बाला, हस्वप्रमाणा इति भावः / असौ रथः, प्रांशुः उन्नतः, अत एव स्वयं रथारोहणे असमर्थति भावः / इति एवं, ब्रवन् किल वदन्निव, सः नलः, स्वयम् आत्मनैव, भैमी दमयन्ती, रथे अध्यरूरुहत् अधिरोहयामास, स्पर्शलोभादिति भावः। णिजन्तरुहधातोः लुडि 'णौ चडि' इत्युपधाहस्वः, 'दी| लघोः' इत्यभ्यासस्य दीर्घत्वम् / किन्तु तत् तदा, रथा. रोपणकाले इत्यर्थः, जनेक्षितः जनैः दृष्टः सन् , बहुभिर्जनः दृष्टत्वादिति भावः / इमां भैंमी, नाश्लिक्षत् न आलिङ्गष्ट, शालीनताविरोधिव्यवहारत्वादिति भावः / श्लिष आलिङ्गने इति श्लिषो लुङि च्लेः क्सादेशः // 113 // __ ( मेरे अतिरिक्त ) दूसरे किसीको इसे ( पतिव्रता दमयन्तीको ) छूनेका अधिकार नहीं है (और ) प्रिया ( दमयन्ती ) शिशु (छोटी) है तथा यह.( रथ ) ऊंचा है। ऐसा कहते हुए उस (नल ) ने दमयन्तीको स्वयं रथपर चढ़ाया और लोगोंको देखते हुए उसका मानों आलिङ्गन नहीं किया अर्थात् वास्तविक विचार करनेपर तो उस प्रकार कहकर उसे रथपर चढ़ाते समय आलिंगन कर ही लिया / / 113 // इति स्मरः शीघ्रमतिश्चकार तं वधूञ्च रोमाञ्चभरेण कर्कशौ / स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोयुगात्॥११४।। इतीति / स्निग्धतनुः मसृणाङ्गो, म्रदीयसी अतिसुकोमला च, इयं भैमी, पीडनात् दृढतया धारणजन्यव्यथाप्राप्तेः, भीरु भयशीलं, दोर्य गं बाहुद्वयं यस्य तस्मात् नदीयसः पीडनासहत्वात् सुदृढधारणेन ब्यथाप्राप्तिशङ्कया शिथिलधारिण इति भावः / प्रियात् नलात् , स्खलिष्यति बृशिष्यति, इति मृदुतयाशिथिलधारणेन स्निग्धतनुरियं प्रियभुजान्तरात् संसिष्यते इति हेतोरिवेत्यर्थः / शीघ्रमतिः प्रत्युत्पन्न मतिः, स्मरः कामः, तं नलं, वधूं भैमीञ्च, रोमाञ्चभरेण पुलकातिशय्येन, कर्कशौ 1. 'इतीव तं शीघ्रमतिः स्मरोऽकरोद्वधूम्' इति, पूर्वाोत्तरार्द्धयोय॑त्यासेन पाठान्तरम्।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy